SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ विशेषा बृहद्वृत्तिः । ॥१३२२॥ अथौघ -- भवजीवितयोविवरणमाह - आउस्सद्दब्बतया सामन्नं पाणधारणमिहोहो । भवजीवियं च उद्धा नेरइयाईण जावत्था ॥ ३५१२ ॥ आयुष आयुमात्ररूपस्य कर्मणः संबन्धीनि यानि सन्ति जीवस्य सत्तावर्तीनि द्रव्याणि तान्यायुःसद्व्याणि तद्भाव आयु:सद्व्यता तयाऽऽयुःसद्रव्यतया संसारे परिभ्रमतो जीवस्य यत् सामान्य माणधारणं यदाश्रित्य सिद्धा एच मृता उच्यन्ते, न संसारिणः, तदिह संसारिणां जीवितसामान्यमात्ररूपमोघ ओघजीवितमुच्यत इति । भवन्ति प्राणिनोऽस्मिन्निति भवः संसारस्तत्रावस्थितिहेतु भूतं भवानीवितम्, तच्चतुर्धा । किं पुनस्तत् ! इत्याह-नारकादीनां या जन्मनः प्रथमसमयाचरमसमयं यावदवस्थाऽवस्थितिरवस्थानं तद्धतुत्वात् सा भवजीवितमिति ॥ ३५१२ ॥ तद्भवजीवितं भोगजीवितं चाह तब्भवजीवियमोरालियाण जं तब्भवोववन्नाणं । चक्कहराईणं भोगजीवियं सुरवराणं च ॥ ३५१३ ॥ पुनः पुनस्तत्रैव विवक्षिते भवे उत्पन्नास्तद्भवोत्पमास्तेषां तद्भवोत्पन्नानां यज्जीवितं तत् तद्भवजीवितमुच्यते । तच्चौदारिकशरीरिणां तिर्यग् मनुष्याणामेवावगन्तव्यम् । तत्रैकेन्द्रियाणां पुनः पुनस्तत्रैवै केन्द्रियभव उत्पद्यमानानामनन्तानि भवग्रहणान्येतदुत्कृष्टतो. ऽवसेयम् । द्वीन्द्रियाणां तु संख्यातानि भवग्रहणानि । पञ्चेन्द्रियतिरश्वां मनुष्याणां च सप्ताष्टौ चा भवग्रहणानीति मन्तव्यम् । जघन्यतस्तु सर्वत्र द्वे भवग्रहणे । चक्रियशरीरिणां तु देव-नारकाणामिदं न संभवत्येव, पुनः पुनस्तत्रैवोत्पत्यभावादिति । चक्रधरादीनां तु भोगपुरुषाणां सुरवराणां च देवानां जीवितं भोगजीवितामिति ॥ ३५१३ ॥ शेषजीवितानि तु त्रीण्याहसेंजमजीवियमिसीणं असंजमजीवियमविरयाणं । जसजीवियं जसोनामओ जिणाईण लोगम्मि ॥३५१॥ १ आयुःसध्यतया सामान्य प्राणधारणमिहोघः । भवजीवितं चतुर्धा नैरायिकादीनां यावस्था ॥ ३५१२ ॥ २ तद्भवजीवितमौदारिकाणां यत् तद्भवोपपन्नानाम् । चक्रधरादीनां भोगजीवितं सुरवराणं च ।। ३५१३ ॥ ३ क. ग. ज. 'रंगणाणं'। ४ संयमजीवितमूषीणामसंयमजीवितमविरतानाम् । यशाजीवितं यशोनामतो जिनादीनां लोके ।। ३५१४ ॥ ॥१३२२॥
SR No.600168
Book TitleVisheshavashyak Bhashya Part 07
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy