________________
विशेषा०
बृहद्वतिः
१३२३॥
पाठसिद्धा, नवरं 'इसीणं ति' ऋषीणां यतीनामिति । 'जसनामउ ति' यशोनामकर्मोदयादित्यर्थः ॥ ३५१४ ॥ नन्वेषां मध्यात् किं जीवितमिहाधिकृतम् ? इत्याहनरभवजीवियमहिगयं विसेसओ, सेसयं जहाजोगं । जावज्जीवामि तयं ता पच्चक्खामि सावज ॥ ३५१५ ॥
भवजीवितरूपं नरभवजीवितं मनुष्यभवजीवितं विशेषतोऽत्राधिकृतम्, मनुष्याणामेव चारित्रसामायिकाधिकारात, शेषं नामादिजीवितं यथायोगं यद् यत्र युज्यते तत् तत्र योजनीयम् । ततश्च स एव मनुष्यः प्रतिजानीते-यावदनेन नरभवजीवितेन जीवामि. तावत् तकं सावद्ययोगं प्रत्याख्यामीति ॥ ३५१५ ।। __ अथवा, यावच्छब्दस्यार्थमाहजावदयं परिमाणे मज्जायाएऽवधारणे चेइ । जावज्जीव जीवणपरिमाणं जत्तियं मि त्ति ॥ ३५१६ ॥ जावज्जीवमिहारेण मरणमज्जायओ न तं कालं । अवधारणे वि आवज्जीवणमेवेह न ओ परओ ॥ ३५१७ ॥
व्याख्या- इह यावदयं शब्दनिष्वर्थेषु वर्तते; तद्यथा-पस्मिाणे, पर्यादायाम्, अवधारणे चेति। तत्र परिमाणार्थ तावदाहयावज्जीवमिति । किमुक्तं भवति । यावद् मे जीवनपरिमाणमिहभवायुष्कस्य परिमाणं तावन्तं कालं प्रत्याचक्ष इति । मर्यादार्थमाइयावज्जीवमित्यादि । अत्र यावज्जीवमिनि किमुक्तं भवति । आरेण मरणमर्यादाया अर्वा प्रत्याचक्षे, न पुनस्तत्कालं प्रत्याख्यान| ग्रहणकाल एव, किन्तु मरणसीमां यावत प्रत्याख्यामीति । अवधारणेऽपि - यावदिहभवजीवितं तावदेव प्रत्याचक्षे, न तु परतः, देवाद्यवस्थायामविरतत्वे प्रत्याख्यानभङ्गप्रसङ्गात् । 'परतो मुत्कलम्' इति विधिरपि न कर्त्तव्यः, भोगाशंसादोषानुषङ्गादिति स्वयमेव द्रष्टव्यमिति ।। ३५१६ ।। ३५१७ ।।
अत्राक्षेप-परिहारावाह--
१ नरभवजीवितमधिगतं विशेषत:, शेषकं यथायोगम् । यावजीवामि तत् तावत् प्रत्याख्यामि सावद्यम् ।। ३५१५ ।। २यावदयं परिमाणे मर्यादायामवधारण चेति । यावर्जवं जीवनपारमाणं यावद् मे इति ।। ३५१६।।। यावजीवमिहारण मरणमर्यादात्तो न तत्कालम् । अवधारणेऽपि यावजीवन मेवेह न तु परतः ॥३५१७॥
१३२३॥
For Personal
use only