________________
विशेषा
बृहदतिः ।
॥१३॥
अथवा, इह वर्जनीयं वर्ण्यत इति वयं पापमुच्यते, सह वर्थेन वर्तत इति सहस्य सभावात् समकारस्य च प्राकृतत्वेन दीर्घत्वविधानात् सावर्षीमित्युक्तं सवपः सपापो योगस्तं सवय॑मिति ॥ ३४९७ ॥
योगपदव्याख्यानार्थमाहजोगो जोयणमायकिरिया समाधाणमायवावारो । जीवेण जुज्जए वा जओ समाहिज्जए सो त्ति ॥ ३४९८ ॥ जं तेण जुज्जए वा स कम्मुणा जं च जुज्जए तम्मि | तो जोगो सो य मओ तिविहो कायाइवावारो ॥३४९९॥
व्याख्या-'युजि योगे' 'युज समाधौ वा' योजनं योग आत्मकर्मसंबन्ध इत्यर्थः । अथवा, आत्मनश्चलन-स्पन्दनादिक्रियया सभ्यगाधानं योजनं योगः सकर्मक आत्मव्यापार इत्यर्थः। अथवा, जीवेन सह युज्यते समाधीयते संबध्यते स यस्मात्, ततो योगो जीवव्यापार एवेति । अथवा, स आत्मा तेन कृत्वा कर्मणा सह युज्यते यस्मात् ततो योगः । अथवा, यस्मात् तस्मिन् योगे सत्यात्मा कर्मणा युज्यते ततो योगः । स च त्रिविधः कायादिव्यापारो मतः-मनो-वाक् कायव्यापार इत्यर्थः ।। ३४९८ ।। ३४९९ ।।
अथ सर्वादिपदानां क्रियया सह संबन्धं कुर्वन्नाह -- सव्वा सावजो त्ति य जोगो संबज्झए तयं सव्वं । सावज जोगं ति य पच्चक्खामि त्ति वजेमि ॥३५००॥ सर्बो निरवशेषः सावद्ययोग इति संबध्यते । तं सर्व सावद्ययोगं प्रत्याख्यामीति क्रिया प्रत्याचक्षे वा वर्जयामीत्यर्थः।।३५००॥ इह प्रत्याख्यामि प्रत्याचक्षे चेति क्रियाद्वयेऽपि सावद्ययोगस्य प्रत्याख्यानं गम्यते, अतस्तदेव प्रत्याख्यानं व्याचिख्यासुराहपइसहो पडिसेहे अक्खाणं खावणाऽभिहाणं वा । पडिसेहस्सक्खाणं पच्चक्खाणं निवित्ति त्ति ॥ ३५०१ ॥
प्रतिशब्दोऽत्र प्रतिषेधे वर्तते, आख्यानं त्वाभिमुख्येन वाऽऽदरेण वा ख्यापना प्रकथनं, चक्षिपक्षेऽभिधानं वा, प्रतिषेधस्याख्यानं प्रत्याख्यानं निवृत्तिः ॥ इति गाथाषोडशकार्थः ॥ ३५०१॥
१ योगो योजनमात्माक्रिया समाधानमात्मव्यापार: । जीवेन युज्यते वा यतः समाधीयते स इति || ३४९८ ॥ यत् तेन युज्यते वा कर्मणा यच युज्यते तस्मिन् । ततो योगः स च मतस्विविधः कायादिव्यापारः ।। ३४९९ ॥ सर्वः सावध इति च योगः संबध्यते तत् सर्वम् । सावधं योगमिति च प्रत्याख्यामीति वर्जयामि || ३५०० ॥ ३ प्रतिशब्दः प्रतिषेधे आख्यानं ख्यापनाऽभिधानं वा । प्रतिषेधस्याख्यानं प्रत्याख्यानं निवृत्तिरिति ॥ ३५०१॥
॥१३१८॥
For Personal and
Use Only