________________
१९९९.९००
विशेषा०
५१३१७॥
व्याख्या-अथ 'द्रव्यसादीनां भेद उच्यते' इति शेषः । तत्र द्रव्यसर्व तावदेकद्रव्याधारमुक्तमित्यन्येभ्यो भिन्नम्, तेषां तद्रूपत्वाभावात् । आदेशसर्व त्वेकानेकद्रव्याधारमिति कृत्वा तथोपचारभेदेन च 'भिन्नमन्येभ्यः' इति वर्तत इति । अशेषसमपि सर्वधत्तासर्वस्मात् पूर्वोक्ताभ्यां च भिन्नम्, यस्मादेकजातिविषयं तदिति । सर्वधत्तापि सर्वेभ्यः पूर्वेभ्यो भिन्ना, सर्ववस्त्वाधारत्वादिति ।। ३४९२-९३ ॥
अय भावसर्वमाहकम्मोदयस्सहावो सव्वो असुहो सुहो य ओदइओ । मोहोवसमसहावो सव्वो उवसामिओ भावो ॥३४९४॥ कम्मक्खयस्सहावो खइओ सव्वो य मीसओ मीसो । अह सव्वदव्वपरिणइरूवो परिणामिओ सव्वो ॥३४९५॥ सुगमे ।। ३४९४ ॥ ३४९५॥ ननु सप्तविधसर्वमध्यात् केनात्राधिकारः ? इत्याहअहिगयमसेससव्वं विसेसओ सेसयं जहाजोगं । गरहियमवजमुत्तं पावं सह तेण सावजं ॥ ३४९६ ॥
इह 'सर्व सावधं योग प्रत्याख्यामि' इति संबन्धाद् निरवशेषसर्व विशेषतोऽधिकृतम्, शेषकं तु षड्विधं सर्व यथायोगं यद् यत्र युज्यते तत् तत्र योजनीयमिति । तदेवं 'करणे भए य अंते सामाइय सन्चए' इत्यादिम्लद्वारगाथायाः पञ्च पदानि व्याख्यातानि । अथ षष्ठं सावधपदं व्याचिख्यासुराह-'गरहियमित्यादि' गर्हितं निन्धं वस्त्ववद्यमुक्तम्, तच्छेह पापम्, सह तेनावयेन वर्तत इति सावधस्तं सावधं योग 'प्रत्याख्यामि' इति वक्ष्यमाणं गम्यत इति ॥ ३४९६ ॥
अथवा, अन्यथा सावधशब्दो व्युत्पाद्यत इत्याहअहवेह वजणिज्जं वजं पावं ति सहसकारस्स । दिग्घत्तादेसाओ सह वजेणं ति सावजं ॥ ३४९७ ॥
१ कर्मोदयस्वभावः सोऽशुभः शुभश्चौदायकः । मोहोपशमस्वभावः सर्व औपशामिको भावः ।। ३४९४ ।।
कर्मक्षयस्वभावः क्षायिक: सर्वश्च मिश्रको मिश्रः । अथ सर्वद्रव्यपरिणतिरूप: पारिणामिकः सर्वः ।। ३४९५ ।। २ अधिगतमशेषसर्व विशेषतः शषकं यथायोगम् । गाईतमवद्यमुक्तं पापं सह तेन सावद्यम् ॥ ३४९६ ।। ३ अथवह वर्जनीयं वय पापमिति सहसकारस्य । दीर्घत्वादेशात् यह वज्येनेति सवर्ण्यम् ॥ ३४९७ ॥
॥१३१॥
6600
For Personal and Price Use Only