SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ विशेषा ० ॥१३१६॥ Jain Educational निरवशेष सर्वमाह दुविहं तु निरवसेसं सव्वासेसं तदेक्कदेसो य । सव्वासेसं सव्वे अणिमिसनयणा जहा देवा || ३४८९ || तसा परिसेसं सव्वे असुरा जहा असियवण्णा । जह जोइसालया वा सव्वे किर तेउलेस्सागा ॥ ३४९० ॥ व्याख्या - निरवशेषं पुनर्द्विविधम् - विवक्षितसर्ववस्तुनिरवशेषं तद्देशनिरवशेषं च । तत्र सर्वनिरवशेषं यथा सर्वेऽनिमिषनयना देवाः । इहानिमिषनयनत्वमपरिशेषेष्वपि देवेषु वर्तते, सनिमिषत्वस्य तेष्वभावादिति । तद्देशापरिशेषं तु यथा-सर्वेऽप्यसित वर्णाः कृष्णा असुराः, यथा वा ज्योतिष्काळया देवाः सर्वे किल तेजोलेश्याकाः । इहासुरा ज्योतिष्काळयाच देवाः समस्तदेवानां प्रत्येकमेकदेशे वर्तन्ते तेषु सर्वेषु यथासंख्यं कृष्णवर्णत्वं तेजोलेश्यायुक्तत्वं च वर्तत इति देशापरिशेषं मन्तव्यमिति || ३४८९|| ३४९० || अथ सर्वभत्तासर्वमाह - जीवाजीवा सव्वं तं धत्ते तेण सव्वधत्त त्ति । सव्वे वि सव्वधत्तासव्वं जमओ परं णन्नं ॥ ३४९१ ॥ इह सर्वमपि लोके यदस्ति तत् सर्व जीवाचाजीवाश्थ, तत् सर्व धत्ते धारयति येन कारणेन तेन सा विवक्षा निपातनात् सर्वधत्ता, सैव चेह जीवाजीवरूपा विवक्षा सर्वधत्तासर्वमुच्यते यस्मादतो जीवाजीवराशिद्वयात् परं नान्यत् किश्चिदस्तीति ॥ ३४९१ ॥ आह- ननु द्रव्यसर्वस्यादेशसर्वस्य निरवशेष सर्वस्य सर्वधत्ता सर्वस्य च कः प्रतिविशेषः १ इत्याहअह दव्वन्यमेगं दव्वाधारं ति भिन्नमन्नेहिं । एगाणेगाधारोक्यारभेएण चादसं ॥ ३४९२ ॥ भिण्णमसेसं जमिहेगजाइविसयं ति सव्वधताओ । भिन्ना य सव्वधत्ता सव्वाधारो त्ति सव्वेसिं ॥ ३४९३॥ १ द्विविधं तु निरवशेषं सर्वशेषं तदेकदेशञ्च । सर्वाशिषं सर्वेऽनिमिषनयना यथा देवाः ।। ३४८९ ।। तद्देशापरिशेषं सर्वेऽसुरा यथाऽसितवर्णाः । यथा ज्योतिरालया वा सर्वे किल तेजोलेश्याकाः ।। ३४९० ।। २ जीवाजीवाः सर्वे तद् धते तेन सर्वधत्तति । सर्वस्मिन्नपि सर्वधत्तासर्व यदतः परं नान्यत् ॥ ३४९१ || ३ अथ द्रव्य सर्वमेकं द्रव्याधारमिति भिन्नमन्यैः । एकानेकाधारोपचारभेदेन चादेशः || ३४९२ ॥ भिन्नमशेषं यदि है कनातिविषयमिति सर्वधत्तातः । भिन्ना च सर्वधत्ता सर्वाधार इति सर्वेभ्यः || ३४९३ ।। For Personal and Private Use Only बृहद्वृचिः । ॥१३१६॥ www.jainelibrary.org
SR No.600168
Book TitleVisheshavashyak Bhashya Part 07
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy