________________
विशेषा
बृहद्वत्तिः ।
॥१३१५॥
62
नापसर्वम्, स्थापनासर्वम्, द्रव्यसर्वम्, आदेशसर्वम्, निरवशेषसर्वम्, तथा, सर्वधत्तासर्वम्, भावसर्वं च सप्तमम् । इति निर्यु क्तिगाथार्थः ॥ ३४८५॥
तत्र नाम स्थापनासर्व सुगमम्, द्रव्यस तु ज्ञ भव्यशरीरव्यतिरिक्तं व्याचिख्यासुराहकैसिणं दव्वं सव्वं तद्देसो वा विवक्खयाभिमओ। व्वे तद्देसम्मि य सव्वासव्वे च उभंगो ॥ ३४८६ ॥ सव्वासव्वे दव्वे देसम्मि य नायमंगुलिदव्वं । संपुण्णं देसोणं पव्वं पव्वेगदेसो य ॥ ३४८७ ॥
व्याख्या-इहाङ्गुल्यादिद्रव्यं यदा कृत्स्नं सर्वैरपि निजावयवैः परिपूर्ण विवक्ष्यते तदा सर्वमुच्यते । एवं तस्याङ्गुल्यादिद्रव्यस्य पर्वादिको देशो निजावयवपरिपूर्णत्वविवक्षया सर्वोऽभिमतः । वाशब्दोऽत्राषिशब्दार्थे व्याख्यातः । एतदेव चाङ्गुल्यादिद्रव्यं तदेशो वा यदाऽपरिपूर्णतया विवक्ष्यते तदा प्रत्येकमसर्वत्वं द्रष्टव्यम् । ततश्च द्रव्ये तदेशे च सर्वासर्वत्वेन विवक्षिते चतुर्भङ्गो भङ्गचतुष्टयं भवति तद्यथा-द्रव्यं सर्व देशोऽपि सर्वः, द्रव्यं सर्व देशोऽसर्वः, देशः सर्वो द्रव्यमसर्वम्, देशोऽसो द्रव्यमप्यसर्वमिति । अत्र द्रव्यस्य सर्वत्वेऽसर्वत्वे च देशस्यापि सर्वत्वेऽसर्वत्वे च यथाक्रमं ज्ञातमुदाहरणम् तद्यथा-अङ्गुलिद्रव्यं संपूर्ण विवक्षितं द्रव्यसत्रमुच्यते, तदेव देशोनं विवक्षितं द्रव्यासर्वमभिधीयते, पर्व पुनः संपूर्ण विवक्षितं देशसर्व विवक्षितम्, पबैंकदेशस्तु देशासर्वमिति ॥ ३४८६ ॥ ३४८७ ॥ उक्त द्रव्यसर्वम् ॥
अथादेशसर्वमाहआएसो उवयारो सो बहुतरए पहाणतरए वा । देसे वि जहा सव्वं भत्तं भुत्तं गओ गामो ॥ ३४८८ ॥
आदेश उपचारः, स च बहुतरे प्रधानतरे वा देशोऽपि सर्वतया प्रवर्तते, तद्यथा-परिगृहीतभक्तमध्याद् बहुतरे मुक्त सत्यादिश्यते-'सर्वमनेन भुक्तम्' इति । प्रधानतरादेशे च कतिपयपुरुषेषु गतेषु शेषेष्ववतिष्ठमानेष्वप्यादिश्यते लोके यथा 'गतः सर्वो ग्रामः' इति ॥ ३४८८ ।।
१ कृत्स्नं द्रव्ये सर्व देशो वा विवक्षयाभिमतः । द्रव्ये तदेशे च सासर्वे चतुर्भङ्गी ॥ ३४८६ ।।
सर्वासर्वे द्रव्ये देश च ज्ञातमकुलद्रव्यम् । संपूर्ण देशोनं पर्व पकदेशश्च ।। ३४८७ ।। २ आदेश उपचारः स बहुतरके प्रधानतर के वा । देशेऽपि यथा सर्व भक्तं भुक्तं गतो प्रामः ॥ ३४८८ ॥
॥१३१
For Personal and Private Use Only