________________
विशेषा
॥१२१९॥
अत्रोत्तरमाह
अलोए पडिहया सिद्धा लोयग्गे य पइट्ठिया । इहं बोंदि चइत्ताणं तत्थ गंतूण सिज्झइ ॥ ३१५९ ॥ एतद् नियुक्तिश्लोकद्वयं सुबोधम् , तथापि नयविचारं किञ्चिद् भाष्यकारः पाहजैमिहं बोदिच्चाओ तदेव सिद्धत्तणं च जं चेहं । तस्साहणं ति तो पुव्वभावनयओ इदं सिद्धी ॥३१६०॥
जेण उ न बोंदिकाले सिहो चायसमए य जं गमणं । पच्चुप्पण्णनयमयं सिज्झइ गंतूण तेणेह ॥३१६१॥
व्याख्या-- यस्मादिह मनुष्यक्षेत्रे बोन्द्याः शरीरस्य त्यागस्तदेव च सिद्धत्वं यः शरीरत्यागः, यस्माच्चेहैव तस्य सिद्धत्वस्य साधनं कारणं सम्यक्त्वप्रतिपत्त्यादि शैलेशीपर्यवसानं तत्साधनमस्ति, ततस्तस्माद् यः सिद्धिगमनसमयात् पूर्वमेव भावं मन्यते स | पूर्वभावनयो व्यवहारनयविशेषः कश्चित् । ततः पूर्वभावनयतः पूर्वभावनयमतेने हैव सिद्धिरिति । येन यस्मात् पुनर्बोन्दिकाल उपान्त्यसमये न नैव सिद्धः, यस्माच्च त्यागसमये गमनम् , य एव बोन्द्यास्त्यागसमयः 'परभवपढमे साडणं' इत्यादिवचनात् , स एव सिद्धिगमनसमय इत्यर्थः, तेन तस्मात् कारणात् प्रत्युत्पन्ननयमतमृजुसूत्रादिनिश्चयनयमतमाश्रित्य सिद्धिक्षेत्रं गत्वा सिध्यति, | बोन्दित्यागसमयसिद्धिगमनसमययोरेतन्मतेनैकत्वात् । अत एव तन्मतेनैवे होक्तम्-- 'तत्थ गंतूण सिज्झइ' इति ॥ ३१६०॥३६११ ॥
अथ 'किं सिद्धालयपरओ' इत्याद्याः भवओ सिद्धो ति मई' इति पर्यन्ताः सप्तदश गाथा: पूर्व षष्ठगणधरे लिखिताः, व्याख्याताश्चः इति नेह लिख्यन्त इति ॥
किं पुनस्तत् स्थानं यत्र गत्वा सिध्यति ? इत्याह--
अत्थीसीयज्झारोवलक्खियं मणुयलोगपरिमाणं । लोगग्गनभोभागो सिद्धिक्खेत्तं जिणक्खायं ॥३१६२॥ प्रकटार्था ॥ ३१६२॥
१ अलोके प्रतिहताः सिद्धा लोकाग्ने च प्रतिष्ठिताः । इह शरीर त्यक्त्वा तत्र गत्वा सिध्येयुः ॥ ३१५९॥ २ यदिह शरीरत्यागस्तदेव सिद्धत्वं च यच्चेह । तत्साधनमिति ततः पूर्वभावनयत इह सिद्धिः ॥ ३१६० ॥
येन तु न शरीरकाले सिद्धस्त्यागसमये च यद् गमनम् । प्रत्युत्पन्ननयमतं सिध्यति गत्वा तेनेह ॥ ३१ ॥ ३ अस्त्यृष्यध्यारोपलक्षितं मनुजलोकपरिमाणम् । कोकामनभोभागः सिद्धिक्षेत्रं जिनाख्यातम् ॥ ३१६२ ॥
SSOolataka
॥१२१९॥
Jain Educationa.Inte
For Personal and Price Use Only