SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥१२१८॥ पतयेत् कर्मामामपि कर्मनिमित्तधर्मा भवस्थस्य 'केसो त्ति जीवधम्मो होज मई होउ कहमजीवस्स। कह वा भवत्थधम्मो होउ भवाओ विमुक्करस ? ॥३१५६॥ व्याख्या-- नन्वेवं तर्हि गतिमत्त्वाद् मुक्तात्मा विनाशी, क्लेशी, गत्यागमी च प्रामोति, मनुष्यवदिति दृष्टान्तः । सूरिराह-- गतिपर्यायाद् गतिपर्यायमाश्रित्य भवतु मुक्तात्मा विनाशी, न नः काचित् क्षतिः, पर्यायरूपतया सर्ववस्तुविनाशित्वस्याभ्युपगतत्वात् । सर्वथा तु विनाशी गतिमत्त्वे सत्यपि न भवत्यसौ, परमाणुवदिति । क्लेशी तु न भवत्येवासौ, यतः क्लेशानां निमित्तं कर्मैव, न तु गतिः, ततस्तदभावात् कर्माभावात् तको रागादिक्लेशः कुतः। अथ गतिरेच क्लेशनिमित्तमिष्यते, तर्हि किमजीवानां परमाण्वादीनां गतिमत्त्वे सत्यपि तकः क्लेशो न भवति । तस्मादनकान्तिकोऽयं हेतुरिति । अथ परस्य मतिर्भवेत्- जीवस्यैव धर्मः क्लेशः स कथमजीवस्य परमाण्वादेर्भवेत् ?, तर्हि हन्त ! गतिमत्त्वे सति यः क्लेशित्वधर्मो भवस्थस्य मनुष्यादेदृष्टः स कथं भवात् संसाराद् विमुक्तस्य भवेत् ?- न भवत्येवेत्यर्थः। एवं गत्यागमित्वमपि कर्मनिमित्तमेव, ततस्तदपि कर्मविमुक्तस्य गतिमत्त्वे सत्यपि न भवतीति स्वयमेव द्रष्टव्यम् । समयमेकं च गतिर्यत् कर्माभावेऽपि भवति, तत्र 'लाउ य' इत्यादिना कारणमुक्तम् , इत्यलं बहुभाषितेनेति । । ॥ ३१५४ ॥३१५५ ॥ ३१५६॥ अथ वक्ष्यमाणस्य प्रस्तावनामाह-- जै गइमओ विघाओऽवस्सं तत्कारणं च जदवस्सं । विहियस्सावत्थाणं जओ य गमणं तओ पुच्छा ॥३१५७|| यद् यस्माद् गतिमतोऽवश्यं कचिदपि गतेर्विघातो भवति, तस्य च गतिविघातस्यावश्यमेव कारणं किमपि यद् यस्माद् भवति, न तु निर्हेतुकोऽसौ जायते, अतिप्रसङ्गात् । विहितस्य च निषिद्धगतेश्च तस्य नियमेनावस्थानं भवति । यत्र चावस्थानं तत्र यतो यस्मात् स्थानात् तस्य गमनं भवति तदवश्यं वक्तव्यम्' इति शेषः । ततस्तस्मात् पृच्छा विधीयते ॥ इति सप्ततिगाथार्थः ।३१५७ केयं पुनः पृच्छा इत्याह-- कहिं पडिहया सिद्धा कहिं सिद्धा पइट्ठिया । कहिं बोंदि चइत्ताणं कत्थ गंतूण सिज्झइ ? ॥ ३१५८ ॥ , क्लेश इति जीवधर्मों भवेद् मतिर्भवतु कथमजीवस्य । कथं वा भवस्थधर्मों भवतु भवाद् विमुक्तस्य ? ॥ ३१५६ ॥ २ गाथा ३१४१ । ॥१२१८॥ ३ यद् गतिमतो विधातोऽवश्यं तत्कारणं च यदवश्यम् । विहितस्यावस्थानं यतश्च गमनं ततः पृच्छा ।। ३१५७ ॥ ४ कुत्र प्रतिहताः सिद्धाः कुन सिद्धाः प्रतिष्ठिताः । कुत्र शरीरं त्यक्त्वा कुन गत्वा सिध्येयुः ॥ ३१५८ ॥ मामालनी Jain Educationa.Intern For Personal and Price Use Only
SR No.600168
Book TitleVisheshavashyak Bhashya Part 07
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy