SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ विशेषा ॥१२१७॥ नालाबुगादिसाहम्ममत्थि सिद्धस्स मुत्तिमत्ताओ। तन्नो तग्गइपरिणामदेससाहम्मओ तेसिं ॥३१५१॥ जइव न देसोवणओ दिलुतो तो न सव्वहा सिद्धो । जं नत्थि वत्थुणो वत्थुणा जए सव्वसाहम्मं ॥३१५२॥ अलाबुकादिभिः सार्धं सिद्धस्य साधर्म्य नास्ति, तेषां मूर्तत्वात् , सिद्धस्य चामूर्तत्वात्। तत् कथं ते दृष्टान्तत्वेनोच्यन्ते ?, इति परस्याभिप्रायः। मूरिराह- तदेतद् न, तस्य सिद्धस्योर्ध्वगमनलक्षणो गतिपरिणामस्तद्गतिपरिणामस्तन्मात्रेण देशसाधर्म्य तद्गतिपरिणामदेशसाधर्म्य तस्मात् तेषामलाबुकादीनां दृष्टान्तत्वं युज्यत इति । यदि पुनर्देशत उपनयो नेष्यते किन्तु सर्वत एव, ततस्तर्हि सर्वथा सर्वैरपि प्रकारैः समानधर्मदृष्टान्तः कोऽपि कचिदपि सिद्धो नास्ति, अतस्तदभाव एव प्रामोति, यस्मात् कस्यापि वस्तुनः केनापि वस्त्वन्तरेण सार्धं जगति सर्वसाधर्म्यं नास्ति, वस्त्वन्तरत्वाभावमसङ्गादिति ॥ ३१५१ ॥ ३१५२ ।। तस्मात् किं स्थितम् ? इत्याहउड्ढगइहेउउ च्चिय नाहो-तिरियगमणं नवाचलया। सविसेसपच्चयाभावओ य सव्वन्नुमयओ य ॥३१५३॥ मुक्तात्मनो नास्तिर्यग् वा गमनम् , नाप्यत्रैवाचलता, किन्तूर्ध्वमेवासौ गच्छति । कुतः ? इत्याह- ऊर्ध्वगतिहेतुत्वात् तत्स्वभावस्य । सह विशेषेण वर्तत इति सविशेषः, स चासौ प्रत्ययश्च तस्याभावाचोर्ध्वमेव गच्छति । इदमुक्तं भवति-पूर्व हि संसारे भ्राम्यतस्तस्यास्तिर्यग् वा गमनमभूत् , सविशेषप्रत्ययस्य नरकानुपूर्व्यादिकर्मणः सद्भावात् । इदानीं त्वसौ नास्ति, ततश्चोर्ध्वमेव गच्छति सर्वज्ञवचनप्रामाण्याचेति ॥ ३१५३ ॥ पुनरपि प्रकारान्तरेणाक्षेप-परिहारौ पाह गैइमत्तओ विणासी केसी गच्चागमी य मणुउ व्य । होइ गइपज्जयाओ नासी न उ सव्वहाणु व्व ॥३१५४॥ केसनिमित्तं कम्मं न गई तदभावओ तओ कत्तो। अह गइ एव निमित्तं किमजीवाणं तओ नत्थि ?॥३१५५॥ नालायुकादिसाधम्यमस्ति सिद्धस्य मूर्तिमत्वात् । तद् नो तद्गतिपरिणामदेशसाधर्म्यतस्तेषाम् ॥ ३१५ ॥ यदिवा न देशोपनयो दृष्टान्तस्ततो न सर्वथा सिद्धः । यद् नास्ति वस्तुनो वस्तुना जगति सर्वसाधयम् ॥ ३१५२ ॥ २ ऊध्वंगतिहेतुत एवं नाधस्तिर्यग्गमनं नवाऽचलता। सविशेषप्रत्ययाभावतश्च सर्वज्ञमततश्च ॥३१५३॥ ३ गतिमत्त्वतो विनाशी क्लेशी गल्यागमी च मनुज इव । भवति गतिपर्ययाद् नाशी न तु सर्वथाऽणुरिव ॥ ३१५४॥ क्लेशानिमित्तं कर्म न गतिस्तदभावतः सकः कुतः । अथ गतिरेव निमित्तं किमजीवानां सको नास्ति' ॥३१५५ ॥ PLAPRICORSalaiane १२१७॥
SR No.600168
Book TitleVisheshavashyak Bhashya Part 07
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy