________________
माः, तस्याप्राप्तपूर्वस्वात् , पाप्तस्य च पुनर्वसाभावात् । तेन तस्मात् गम्यते ज्ञायते सदैवोपयोगोभयं तेषां प्रवर्तते । यदि पुनः क्रमेणोविशेषा
पयोगः स्यात् , तदा भूत्वा भूत्वा विनाशात् , पुनः पुनरपि चोत्पादात् , केवलोपयोगेनापथमत्वमपि तेषां भवेदिति भावः ॥ ३१०८ ॥
मूरिराह।।१२०५॥
उवओगग्गहणाओ इह केवलनाण-दसणग्गहणं । जइ तदणत्थंतरया हवेज सुत्तम्मि को दोसो ? ॥३१.९॥
- यदि 'केवलोवओगणं' इत्यत्रोपयोगग्रहणात् 'केवलयोरुपयोगः केवलोपयोगः' इति समासाक्षिप्तयोः केवलज्ञान-केवलदर्श| नयोग्रहणमिष्यते, तर्हि तदनन्तरता, तयोः केवलज्ञान केवलदर्शनयोरेकस्मादुपयोगादव्यतिरिक्तत्वात् परस्परमनन्तरता- ज्ञानं च
दर्शनं चैकमेव वस्तु, एकरूपभावादिति । परः पाह- 'सुत्तम्मि को दोसो त्ति' भवतु तयोरनर्थान्तरता, को ह्येवं सति 'केवलोवओगेगं' IR इति सूत्रे दोषः स्यात् - न कश्चित् , अस्माकं सिद्धसाधनादिति ।। ३१०९॥
आचार्यः माह- यदि दोषपरिज्ञाने तव कुतूहलम् , तर्हि शृणु तम् , इत्याह
तेग्गहणे किमिह फलं नणु तदणत्थंतरोवएसत्थं । तह वत्थुविसेसत्थं सयसो सुत्ताइं समयम्मि ॥३११०॥
नन्विह मूत्रे तयोः केवलयोग्रहणं तमिस्तद्ग्रहणे सति किं फलं सिध्यति- अनर्थान्तरत्वे सति किमर्थमुभयग्रहणम् ?, पुनरुक्तदोषप्रसङ्गादिति भावः। पर आह- तयोः केवलज्ञान-दर्शनयोः परस्परमनन्तरतोपदेशार्थमेवेदम् । तथा, वस्तुनः केवलस्य केवलज्ञान-केवलदर्शनपर्यायध्वनिभ्यां विशेषणार्थ चेदम् । एकमेव हि केवलवस्तु केवलज्ञान केवलदर्शनलक्षणपर्यायध्वनिद्वयेन विशेषितं । भवतीत्यर्थः । न केवलमिदं मयैवोच्यते, किन्त्वेकस्यैव वस्तुनोऽनेकपर्यायध्वनिभिर्विशेषणार्थं समये सिद्धान्तेऽपि सूत्राणि शतशोऽनेकशः सन्तीति ॥ ३११०॥
एतदेव पर उपदर्शयति
सिद्धो काइय-नोसंजयाइपज्जायओ स एवेगो । सुत्तेसु विसेसिज्जइ जहेह तह सव्ववत्थूाण ॥ ३१११ ॥
1 उपयोगग्रहणादिह केवलज्ञान-दर्शनग्रहणम् । यदि तदनर्धान्तरता भवत् सत्रे को दोषः ॥३१०९॥ २ तद्ग्रहणे किमिह फलं ननु तदनन्तरोपदेशार्थम् । तथा वस्तुविशेषार्थं शतशः सूत्राणि समये ॥३१॥ ३ सिद्धा-कायिक-नोसंयतादिपर्यायतः स एवैकः । सूत्रेषु विशेष्यते यथेह तथा सर्ववस्तूनि ॥ ३१॥
॥१२०५।
Jan Edo
Internal
For Personal and Price Use Only