________________
विशेषाः
४१३३०॥
ननु 'सर्व सावधं योग प्रत्याख्यामि' इत्युक्तम् , का पुनरसौ सावधो योगः' इत्याहसं य सावज्जो जोगो हिंसाईओ तयं सयं सव्वं । न करोमि न कारेमि य न याणुजाणे करतपि ॥३५३९।।
स च सावधो योगो हिंसा-नृत स्तेयादिको मन्तव्यः, तकं सर्वमपि स्वयं न करोमि, न कारयाम्यन्यैः, एवं नानुजानामि कुर्वन्तमपीति ।। ३५३९ ।।
अथेदं प्रत्याख्यानं यति-गृहस्थयोदेन व्यवस्थापयशाहकरणतिगेणेकिकं कालतिगे तिघणसंखियमिसीणं । सव्वं ति जओ गहियं सीयालसयं पुण गिहीणं ॥३५४०॥
अत्र 'न करोमि न कारयामि' इत्यादिकमेकैकं योगं मनःप्रभृतिना करणत्रयेण सह कालत्रिकं चारयेत् । ततश्च त्रयाणां यो घन: सप्तविंशतिलक्षणस्तत्संख्यकं भङ्गकसंख्यामाश्रित्य तत्संख्याप्रमाणमृषीणां साधूनाम् 'अवबुध्यते' इति शेषः । कस्मात् ? इत्याहयतः 'सर्व सावा योग प्रत्याख्यामि' इति साधोः प्रत्याख्यानं गृहातम्, ततस्तत्पत्याख्यानभङ्गकानामेतत्संख्याप्रमाणता । असर्वसा वद्ययोगपत्याख्यायिना पुनहिणां प्रत्याख्यानस्य सप्तचत्वारिंशदधिकं भङ्गकशतं विज्ञेयमिति । इयमत्र भावना-'त्रिविधं त्रिविधेन' इत्यनेन सर्वसावधयोगप्रत्याख्यानादर्थतः साधुप्रत्याख्यानस्य सप्तविंशतिर्भङ्गाः सूचिताः, ते चवं भवन्ति-यद् न करोति तद् मनसा वाचा कायेन, एवं न कारयत्यपि मनसा वाचा कावेन, एवं न समनुजानीते च मनसा वाचा कायेन, इत्येवं वर्तमानकाळे नव भङ्गा भवन्ति, एवमतीतेऽपि नव भविष्यन्ति, भविष्यत्यपि नव, इत्येवं सप्तविंशतिर्भङ्गाः साधुपत्याख्यानस्य भवन्ति । गृहिणस्तहि कथं सप्तचत्वारिंशं भङ्गकशतमिति चेत् । उच्यते-गृही सावधं योगं न करोति, न कारयति, नान्यं समनुजानीत मनसा वाचा कायेन चे. त्येको भङ्गः। अथवा, न करोति न कारयति नानुजानीते मनसा वचसा च; अथवा, मनसा कायेन च; अथवा, वचसा कायेन च अथवा, न करोति न कारयति, नानुजानीते मनसा; अथवा, वचसा; अथवा, कायेन अथवा, न करोलि, न कारयति मनसा वाचा कायेन अथवा, न करोति नानुजानीते त्रिपिरपि करणैः। अथवा, न कारयति नानुमानीते त्रिभिरपि करणैः; अथवा, न करोति न कारयति मनसा वचसा; अथवा, मनसा कायेन च; अथवा, वचसा कायेन च; अथवा, न करोति नानुजानीते मनसा वचसा;
१ स च सावधो योगो हिंसादिकस्तत् स्वयं सर्वम् । न करोमि न कारयामि च न चानुजानामि कुर्धन्तमपि ।। ३५३९ ॥ २ करणनि कणकैकं कालत्रिके त्रिपनसंख्यातमृषीणाम् । समिति यतो गृहीत सप्तचत्वारिंशतं पुनZहिणाम् ॥३५४०।।
॥१३३०॥