________________
विशेषा०
॥१३०६ ॥
Jain Educationa h
अथवा, भान्ती भ्राजन्तो वा गुरुरुच्यते, कथम् ? इत्याह
अहवा भा भाजो वा दित्तीए होइ तस्स भतो त्ति | भाजंतो चायरिओ सो नाण-तोगुणजुईए ॥ ३४४७ ॥ अथवा, भाषातुधातुर्वा ' दित्तीए ति ' दीप्तौ पठ्यते, तस्य भान्तो भ्राजन्त इति वा भवति । स चैवंभूतः कः : इत्याहआचार्यः । स च कथं भाति भ्राजते वा ? इत्याह-ज्ञान- तपोगुणदीप्त्येति ॥ ३४४७ ॥
अथवा, भ्रान्तो भगवान् वाऽसाविति दर्शयन्नाह -
अहवा भतोऽत्रेओ जं मिच्छत्ताइबंधहेऊओ | अहवेसरियाइभगो विज्जइ से तेण भगवंतो ॥ ३४४८ ॥
अथवा, ‘भ्रम अनवस्थाने' इत्यस्य धातोर्भ्रान्त इत्युच्यते, यस्मादपेतोऽसौ मिथ्यात्वादिवन्धहेतुभ्य इति । अथवा, ऐश्वर्यादिकः षड़िधो भगो विद्यते 'से' तस्य, तेन भगवान् गुरुरिति ॥ ३४४८ ॥
अथवा, भवान्तो भयान्तो वाऽयमित्यादर्शयन्नाह -
राइभवस्स व अंतो जं तेण सेो भवतो त्ति । अहवा भयस्स अंतो होइ भयंतो भयं तासो ॥ ३४४९ ॥
अथवा, यस्माद् नारकादिभवस्यान्तहेतुत्वादन्वोऽसौ तेन भवान्त इति । अथवा, भयस्यान्तो भयान्तो भवति, भयं च त्रास उच्यत इति ॥ ३४४९ ॥
अथ भयं विशेषतोऽपि व्याचिख्यासुराह
नाइ छविहं तं भावभयं सतहेहलोगाई । इहलोगजं सभवओ पर लोगभयं परभवाओ || ३४५० ॥
१ अथवा भा भ्राजो वा दीप्तो भवति तस्य 'तो' इति । भ्राजंश्चाचार्यः स ज्ञान- तपोगुणसुत्या ॥ ३४४७ ॥
२ अथवा 'तो' अपेतो यद् मिथ्यात्वादिवन्धहेतुभ्यः । अथवैश्वर्यादिभगो विद्यते तस्य तेन 'भगवंतो' ।। ३४४८ ॥ ३ नैरयिकादिभवस्य वाऽन्तो यत् तेन स भवंतो ' इति । अथवा भयस्यान्तो भवति 'भयंतो भयं त्रासः ॥ ३४४९ ॥ ४ नामादि षड्विधं तद् भावभयं सप्तलोकादि । इहलोकजं स्वभवतः परलोकभयं परभवात् ॥ २४५० ।।
For Personal and Private Use Only
बृहद्वतिः ।
।। १३०६ ॥
www.janbrary.org