SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥१३०८ ॥ Jain Education fr एत्थ भयंताई पागयवागरणलक्खणगईए । संभवओ पत्तेयं द-य-ग-वगाराइलोवाओ || ३४५५ ॥ हस्सेकारंतादेसओ य भंते त्ति सव्वसामण्णं । गुरुआमंतणवयणं विहियं सामाइयाईए ॥ ३४५६ || व्याख्या - अत्र भदन्तादीनाम्, आदिशब्दाद् भजन्त-भान्त-भ्राजन्त भ्रान्त भगवन्त भवन्त भयान्तपरिग्रहः, प्राकृतव्याकरणलक्षणगत्या यथासंभवं प्रत्येकं द-य-ग-वकाराद्यक्षर लोपात्, तथा इस्वैकारान्तादेशतश्च 'भंते त्ति' सर्वसामान्यं पदं 'निष्पद्यते ' इति शेषः । तत्र ‘भदन्त' इत्यत्र दकारस्य, 'भयान्त' इत्यत्र यकारस्य, 'भगवन्त' इत्यत्र गवकारयोर्लोपः कर्तव्यः, आदिशब्दाद् 'भजन्त ' इत्यादिषु काराद्यक्षराणां लोपो द्रष्टव्यः, 'भांत' इत्यादिषु भादीनां हस्वत्वादेशः, 'भंत' इति पदेऽवस्थिते अन्त एकारादेशः कर्तव्य इति । 'भन्ते' इत्येतच्च पदं गुर्वामन्त्रणवचनं सामायिक सूत्रस्यादी विहितमिति ॥ ३४५५ ।। ३४५६ ।। 'भदन्त' इति पदस्यामन्त्रणवचनतामेव भावयति - आमंतेइ करेमि भंते सामाइयं ति सीसोऽयं । आहामंतणवयणं गुरुणो किंकारणमिणं ति ? ॥ ३४५७ ॥ ‘करेमि भंते ! सामाइयं' इत्येवं शिष्योऽयमामन्त्रयति गुरुम् । आह परः - ननु गुरोरामन्त्रणवचनमिदमादौ विहितम् इत्यत्र किं कारणम् ? इत्येतत् कथ्यतामिति ।। ३४५७ ।। सूरिराह अण्णइ गुरुकुलवासे वर्स गहत्थं जहा गुणत्थीह । निश्चं गुरुकुलवासी हविज्ज सीसो जओऽभिहिंयं ॥३४५८॥ नाणस्स हाइ भागी थिरतरओ दंसणे चरिते य । धन्ना आवकहाए गुरुकुलवासं न मुंचति ॥ ३४५९ ॥ १ अत्र भदन्तादीनां प्राकृतव्याकरणलक्षणगत्या । संभवतः प्रत्येकं दन्य-ग-वकारादिलोपात् ॥ ३४५५ ॥ ह्रस्वैकारान्तादेशतश्च 'भंत' इति सर्वसामान्यम् । गुर्वमन्त्रणवचनं विहितं सामायिकादौ ।। ३४५६ || २ आमन्त्रयति 'करोमि भगवन् ! सामायिकम्' इति शिष्योऽयम् । आहामन्त्रणवचनं गुरोः किंकारणमिदमिति ? || ३४५७ ॥ ३ भव्यते गुरुकुलबासे वसन् ग्रहार्थं यथा गुणार्थीह । नित्यं गुरुकुलवासी भवेत् शिष्यो यतोऽभिहितम् || ३४५८ ॥ ज्ञानस्य भवति भागी स्थिरतरको दर्शने चारित्र च । धन्या यावत्कथां गुरुकुलवासं न मुञ्चन्ति ।। ३४५९ ।। For Personal and Private Use Only बृहद्दीतः । ॥१३०८/ www.jainelibrary.org
SR No.600168
Book TitleVisheshavashyak Bhashya Part 07
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy