________________
विशेषा
बृहद्वति ।
॥१३०॥
'गीयावासो रई धम्मे अणाययणवजणं । निग्गहो य कसायाणं एवं धीराण सासणं ॥ ३४६० ।। रूपकत्रयं पाठसिद्धम् ॥ ३४५८ ॥ ३४५९ ॥ ३४६० ॥ अपिच, आवस्सयं पि निच्च गुरुपामूलम्मि देसियं होइ । वीसु पि हु संवसओ कारणओ जदभिसेज्जाए ॥ ३४६१ ॥
अनेन गुर्वामन्त्रणवचनेनावश्यक प्रतिक्रमणं गुरुपादमूल एव नित्य कर्तव्यमिति दर्शितं भवति, यद् यस्मादभिशय्यायां द्वितीयेवसतावित्यर्थः कारणतः कारणवशाद् विष्वपि पृथगपि संवसतः साधोः 'कल्पग्रन्थे इयं सामाचारी प्रोक्ता' इति शेषः । का पुनरियं कल्पसामाचारी ? इति । उच्यते-"जइ खुडुलगा वसही तो अन्नस्थ गंतूण करपया साहुणो वसंति" । तत्राचार्यसमीपे “पहिकमिउं पाउसियकालग्गहणोत्तरं कालं" मूत्रग्रहणार्थपौरुषी कृत्वाऽन्यस्यां गच्छन्ति; अथान्तरा वापदादिभयम्, ततोऽर्थपौरुषी दापयन्ति । ततः सूत्रपौरुषीपपि कालमपि तथा चरमं कायोत्सर्ग द्वितीयमाद्यं यावत् तिष्ठत्यपि सहस्ररश्मौ तत्र यान्तीति ॥३४६१॥
न केवलं प्रतिक्रमणम्, किन्त्वेवमेव शेषायपि सर्वाणि साधोरवश्यं कर्तव्यान्यावश्यकानि गुरूनापृच्छय कर्तव्यानीत्येतज्ज्ञा. पितमामन्त्रणवचनात् , येन सर्वेषामप्यावश्यकानां सामायिकमेवादौ मतम्, भदन्तश्च यस्मात् तदादौ निर्दिष्टस्तेनानुवर्तते तकोऽऽसौ सर्वे प्वप्यावश्यकेषु । कथम् ? इत्याह-इदमिदं च करोमि भदन्त ! इति । एतदेवाह
एवं चिय सव्वावस्सयाई आपुच्छिऊण कजाई । जाणावियमामंतणवयणाओ जेण सव्वेसि ॥ ३४६२ ॥ सामाइयमाइमयं भदंतसहो य जं तदाईए । तेणाणुवत्तइ तओ करेमि भंते त्ति सव्वेसु ॥ ३४६३ ॥ गतार्थे ।। ३४६२ ।। ३४६३ ।।
१ गीतावासो रतिधर्मेऽनायतनवर्जनम् । निग्रहश्च कषायाणामेतद् धीराणां शासनम् ॥ ३४६०॥ २ आवश्यकमपि नित्यं गुरुपादमूले देशितं भवति । विष्वगपि खलु संवसतः कारणतो यदभिशय्यायाम् ॥ ३४६१ ।। १ एवमेव सर्वावश्यकाम्यापुच्छय कार्याणि । आज्ञपितमामन्त्रणवचनादू येन सर्वेषाम् ॥ ३४६२ ।। सामायिकमादिमकं भदन्तशब्दश्च यत् तदादौ । तेनानुवर्तते सकः 'करेमि भंते ' इति सर्वेषु ॥ ३४६३ ॥
॥१३०॥