________________
विशेषा०
।। १२१४।।
Jain Educators Interna
अथ 'लोउ य' इत्यादिवक्ष्यमाणगाथायाः प्रस्तावनां रचयन्नाह
गतूण सिज्झइ ति य भणिए सुत्तम्मि कहमकम्मरस । आह गमणं ति, भण्णइ सकम्मगमणे व को हेऊ ? ॥ ३१३६|| बृहद्वृत्तिः ।
'सिज्झणा चेव' इत्यनन्तरगाथायामुक्तम्, वक्ष्यमाणसूत्रे च " तत्थ गंतून सिज्झइ " इति वक्ष्यति । एतस्मिंश्च भणिते प्रेरकः प्राह- कथमकर्मणः क्षपितकर्मकस्य देशोनसप्तरज्जुर्यावत् सिद्धिगमनं संभवति ?, पूर्व संसारे सकर्मकस्यैव गमनादिक्रियादर्शनादिति भावः । सूरिराह - भण्यतेऽत्रोत्तरम् - ननु सकर्मकस्यापि गमने को हेतुः । इति वक्तव्यम् ।। ३१३६ ॥
कर्मैवेति चेत्, तत्राह —
कैम्म पुग्गलमइयं निज्जीवं तस्स नयणसामत्थे । को हेऊ पडिवण्णो जइव सहावो इह स एव ॥ ३१३७॥ ननु कर्म तावत् पुद्गलमयम्, तन्मयत्वाच्च निर्जीवम्, निर्जीवस्य च तस्य जीवस्य सिद्धिं यावद् नयने को हेतुस्त्वया प्रतिपन्नः ? | यदि च स्वभावस्तत्र हेतुरित्युच्यते, नन्विहापि निष्कर्मकजीवगमने स एव स्वभावो हेतुः केन वार्यते ? इति ।। ३१३७ ।। पुनरप्याक्षेप- परिहारावाह
सैक्किरियं किमरूवं भण्णइ भुवि चेयणं च किमरूवं ? । जह से विसेसधम्मो चेयण्णं तह मया किरिया ||३१३८|| जं वेह जेण किरियाकारणमब्भुवगयं तहिं एसो । तुल्लोवालंभो चिय जं न सहावो सरणमिको || ३१३९ ॥
व्याख्या-- ननु जीवद्रव्यमरूपममूर्तम्, तत् किं केन कारणेन सक्रियं सिद्धिगमन क्रियावदिष्यते ?, अरूपस्याकाशस्त्र क्रियानुपपत्तेरिति भावः । सूरिराह- भण्यतेऽत्रोत्तरम् - ननु पर ! त्वमपि प्रष्टव्योऽसि, अरूपममूर्त जीवद्रव्यं चेतनमपि किं कस्माद्धेतोरिष्यते, अमूर्तस्याकाशस्येव चेतनत्वस्याप्यघटनात् । अथामूर्तस्यापि जीवद्रव्यस्य स्वभावादेव चैतन्यमाकाशापेक्षया विशेषधर्म इष्यते, तर्हि यथाऽस्यायं स्वभावादिष्यते तथा क्रियापि गमनलक्षणा विशेषधर्मोऽस्य मता परमगुरूणामिति । यद्वा, स्वभा
१ गाथा ३१४१ ।
२ गत्वा सिध्यतीति च भणिते सूत्रे कथमकर्मणः । आह गमनमिति, भण्यते सकर्मगमने वा को हेतुः ? ॥ ३१३६ ।। ३ कर्म पुत्रलमयं निर्जीवं तस्य नयनसामर्थ्यं को हेतुः प्रतिपन्नो यदिवा स्वभाव इह स एव ॥ ३१३७ ॥
४ सक्रियं किमरूपं भण्यते भुवि चेतनं च किमरूपम् ? यथा तस्य विशेषधर्मत्रैतन्यं तथा मता क्रिया ॥ ३१३८ ॥
द्वे येन क्रियाकारणमभ्युपगतं तपः । तुल्य उपालम्भ एव यद् न स्वभावः शरणमेकः ॥ ३१३९ ॥
For Personal and Private Use Only
।। १२१४ ॥
www.jainelibrary.org