SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ विशेषा बृद्ध त्तिः । ॥१२१५॥ वादन्यदिहादृष्टमीश्वरादिकं येन वादिना जीवस्य गमनादिक्रियाकारणमभ्युपगतम् , तत्रापीश्वरादिकारण एप जीवस्य सिद्धिगमनक्रियाविषय उपालम्भस्तुल्य एव; तथाहि-तत्रापि शक्यत एवं वक्तुम्-ईश्वरादिरपि कथं तत्क्रियायां प्रवर्तयति ? । अथ तस्याप्यन्यत् कारणम् , पुनस्तस्याप्यपरमित्यनवस्था । ततः पर्यन्ते यदि स्वभाव एवैकः शरणं नेष्यते, तर्हि नेयं निवर्तते । इष्यते चेत् , तर्हि स एव जीवस्य सिद्धिगमनक्रियायां कारणमिष्यताम् , किमन्येन ? इति ॥ ३१३८ ।। ३१३९ ॥ किश्च, कारणमपि गतिक्रियायां किश्चिदुच्यते-- अविय असंगत्तणओ बंधच्छय परिणामभावाओं। पुज्वप्पओगउ च्चिय तस्स गई तत्थ दिद्वंता ॥३१४०॥ लाउ य एरंडफले अग्गी धूमे य उसु धणुविमुक्के । गई पुव्वपओगेणं एवं सिद्धाण वि गई ओ॥ ३१४१ ॥ व्याख्या- अपि च, यथाऽलाबुकस्य तुम्बकस्य दर्भान्तरितशुष्काऽष्टमूल्लेपलिप्तस्य नद्यादिजले प्रक्षिप्तस्य मृल्लेपसङ्गापगमात् स्वभावत एवोज़ गतिः प्रवर्तते, न तिर्यग् , नापि जलोपरिमतलादपि परतः, तथा तस्यापि सिद्धस्य कर्मसंयोगाभावार्ध्वमेव गतिः प्रवर्तते, नान्यप्रकारेण, नापि लोकोपरिमभागादपि परतः । यथा वा, एरण्डफलस्यैरण्डमिञ्जिकायां बन्धनच्छेदेनातपशुष्ककोशकविगमनेन तथाविधस्वभावादूर्ध्वमेव गतिः, एवं विगतकर्मबन्धनस्य जीवस्यापीति । यथा वा, अग्नेधूमस्य वा 'परिणामभावाउ ति' तथाविधपरिणामभावादूर्ध्वमेव गतिः प्रवर्तते तथा मुक्तजीवस्यापि । यथा वा, धनुषा पुरुषप्रयत्नप्रेरितस्येषोर्गतिकारणविगमेऽपि पूर्व| प्रयोगाद् गतिः प्रवर्तते, एवं तस्यापि सिद्धस्य । तत्र चालाबुप्रभृतयो दृष्टान्ताः, यथाऽलाबुप्रभृतीनामसङ्गत्वादिभिर्गतयः प्रवर्तन्ते, एवं सिद्धानामपीति ॥ ३१४० ॥ ३१४१ ॥ इयं च नियुक्तिगाथा, ततोऽस्या व्याख्यानमाहजह मिल्लेवावगमादलाबुणोऽवस्समेव गइभावो । उद्धं च नियमओ नण्णहा नवा जलतलादुद्धं ॥३१४२॥ तह कम्मलेवविगमे गइभावोऽवस्समेव सिद्धस्स । उद्धं च नियमओ नण्णहा नवा लोगपरउ ति॥३१४३॥ १ अपिचासकरवतो बन्धच्छेदात् परिणामभावात् । पूर्वप्रयोगत एव तस्य गतिस्तत्र दृष्टान्ताः ॥ ३१४०॥ ___ अलावु चैरण्डफलमग्निघूमश्वेषुर्धनुर्विमुक्तः । गतिः पूर्वप्रयोगेणैवं सिद्धानामपि गतिस्तु ।। ३१४१॥ २ यथा मृलेपापगमादलाबुनोऽवश्यमेव गतिभावः । ऊर्वं च नियमतो नान्यथा नवा जलतलादूर्ध्वम् ॥ ३१४२॥ तथा कर्मलेपविगमे गतिभावोऽवश्यमेव सिद्धस्य । अध्वं च नियमतो नान्यथा नवा कोकपरत इति ॥ ३१४३ ॥ ॥१२१५॥ Jain Educationa.Inter For Personal and Price Use Only
SR No.600168
Book TitleVisheshavashyak Bhashya Part 07
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy