SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ विशेषा. बृहदत्तिः । ॥१३०१॥ विकलोऽन्ध इति ॥ ३४२९ ॥ अथानन्यत्वपक्षं दूषयमाहएकत्ते तन्नासे नासो जीवस्स संभवे भवणं । कारगसंकरदोसो तदिक्कया कप्पणा वावि ॥ ३४३० ॥ सामायिक-तद्वतोरेकत्वेऽनन्यत्वे तन्नाशे सामायिकनाशे सामायिकवतो जीवस्यापि नाशः पामोति, घटस्वरूपनाशे घटस्येव, संभवे बोत्पत्तौ वा सामायिकस्य, जीवस्यापि भवनमुत्पत्तिमत्त्वं स्यात् । न च तस्य तदिष्यते, नित्यत्वात् । तथा, कर्तृ कर्म-करणकारकाणां संकरदोषः, तदेकता वा स्यात्, कल्पनामात्ररूपता वा कारकाणां भवेदिति ।। ३४३० ।। अत्राचार्य उत्तरमाहआया हु कारओ मे सामाइयकम्म करणमाया य । तम्हा आया सामाइयं च परिणामओ इकं ॥ ३४३१ ॥ आत्मैव तावत् सामायिकस्य कारकः कर्ता मे मम, सामायिकमेव क्रियमाणत्वात् कर्म सामायिककर्म तदप्यात्मैव, न पुनस्तद्वयतिरिक्तमन्यत् किश्चिदिति, चशब्दाद् मनःप्रभृतिकं करणमप्यात्मैव । तस्मादात्मा सामायिकं चशब्दात् करणं चेति त्रितयमप्येतदेकमेव । कथम् । परिणामतः-आत्मपरिणामरूपत्वात् । न हि सामाथिकं मनाप्रभृति करणं चात्मपरिणामरूपत्वमतिक्रम्य वर्तते । अतस्त्रितयमपि परिणामरूपतयैकमेवेदमिति ॥ ३४३१ ।। एतदेव व्याचिख्यासुराहजै नाणाइसभावं सामाइयं जोगमाह करणं च । उभयं च सपरिणामो परिणामाणन्नया जं च ॥ ३४३२ ॥ यस्मात् सामायिक सामान्येन ज्ञान-दर्शन-चारित्रस्वभावम्, करणमपि मनःप्रभृतिकं योगमाह परमगुरुः, उभयं चैतदात्मनः खपरिणामः, परिणाम तद्वतोश्च यस्मादनन्यरूपतैवेति ॥ ३४३२ ।। ततः किम् ? इत्याह १ एकत्वे तमाशे नाशो जीवस्य संभवे भवनम् । कारकसंकरदोषस्तदेकता कल्पना वापि ॥ ३४३०॥ २ आत्मा खलु कारको मे सामायिककर्म करणमात्मा च । तस्मादात्मा सामायिकं च परिणामत एकम् ॥ ३४३१ ॥ ३ यज्ज्ञानादिखभावं सामायिकं योगमाह करणं च । उभयं च स्वपरिणामः परिणामानन्यता यच्च ।। ३४३२ ।। 4॥१३०१॥ JainEducational For Personal and Use Only www.jaineesbrary.org
SR No.600168
Book TitleVisheshavashyak Bhashya Part 07
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy