________________
विशेषा
॥१३०२॥
'तेणाया सामइयं करणं चसहओ न भिन्नाई। नणु भणियमणण्णत्ते तन्नासे जीवनासो त्ति ॥ ३४३३ ॥
तेन तस्मादात्मा सामायिकं, चशब्दात् करणं च मनःप्रभृति, न परस्परमेतानि भिन्नानि । आह-नन्वेवमनन्यत्वे 'तन्नाशे जीवनाश:' इत्यादिकं दूषणं भणितमेवेति ॥ ३४३३ ।।
अत्र सूरिराहजइ तप्पजयनासो को दोसो होइ सव्वहा नस्थि । जं सो उप्पाय-व्वय-धुवधम्माणंतपज्जाओ ॥ ३४३४॥
स चासौ सामायिकादिरूपः पर्यायश्च तत्पर्यायस्तत्पर्यायेण तत्पर्यायरूपेण नाशो जीवस्य तत्पर्यायनाशो यदि भवति, तदा भवतु नाम, को दोषः। यस्तु पर्यायविनाशे जीवस्य सर्वथा नाशः स नास्ति नेष्यते, यस्मादसौ जीव उत्पाद-व्यय-ध्रौव्यधर्माऽनन्तपर्यायः । ततश्चैकस्य सामायिकादिपर्यायस्य नाशेऽपि कथं तस्य सर्वथा नाशा, शेषानन्तपर्यायैर्विशिष्टस्य तस्य सर्वदाऽवस्थानात् ? इति ॥ ३४३४ ॥
न केवलमात्मा, किन्तु सर्वमपि वस्तु जैनानामुत्पाद-व्यय-नित्यतास्वरूपमेवेति दर्शयन्नाह - सव्वं चिय पइसमयं उप्पज्जइ नासए य निच्चं च । एवं चेव य मुह-दुक्ख-बंध-मोक्खाइसब्भावो ॥ ३४३५॥ प्रागसकृद् भाविताथैवेति ॥ ३४३५॥ यदप्युक्तम् - कारकैकत्वम्-कारकैकता पामोति' अत्राप्याहएक चेव य वत्थु परिणामवसेण कारगंतरयं । पावइ तेणादोसो विवक्खया कारगं जं च ॥ ३४३६ ॥ एकमेव हि वस्तु परिणामवशेन कारकान्तरता पामोति; तथाहि-एक एव देवदत्तः कटादिकर्तृत्वेन परिणतः कर्ता, स एव
१ तेनात्मा सामायिकं करणं चशब्दतो न भिन्नानि । ननु भणितमनन्यत्वे तन्नाशे जीवनाश इति ।। ३४३३ ।। २ यदि तत्पर्ययनाशः को दोषो भवति सर्वथा नास्ति । यत् स उपाय-व्यय-ध्रुवधर्मानन्तपर्यायः ॥ ३४३४ ॥ ३ सर्वमेव प्रतिसमयमुत्पद्यते नश्यति च नित्यं च । एवमेव च सुख-दुःख-बन्ध-मोक्षादिसद्भावः ।। ३४३५ ।। ४ एकमेव च वस्तु परिणामवशेन कारकान्तरताम् । प्राप्नोति तेनादोषो विवक्षया कारकं यश्च ।। ३४३६ ।।
॥१३०२॥
Jan Educational
For Personal and Price Use Only
XAlwww.jainelibrary.org