________________
विशेषा
ઘરે રૂમ
यज्ञदत्तादिप्रयोजककरणतया परिणतत्वात् करणम्, दिलणां दृश्यमानतया परिणतत्वात् कर्म, ताम्बूलादिदानग्रहणतया परिणतत्वात् संप्रदानम्, स एव निष्पन्नकटस्य मोचनेन परिणतत्वादपादानम्, कटक्रियाधारत्वेन च परिणतत्वादधिकरणमिति । एवमन्यत्रापि भावनीयम् । तेन कारकसंकरादिको न दोषः, विवक्षातश्च यस्मात् कारकाणि भवन्ति, तस्मात् कल्पनायामप्यदोष एवेति ॥ ३४३६ ॥
तथाहिकुंभो विसिज्जमाणो कत्ता कम्मं स एव करणं च । नाणाकारयभावं लहइ जहेगो विवक्खाए ॥ ३४३७ ॥ जह वा नाणाणन्नो नाणी नियओवओगकालम्मि । एगो वि तिसहावो सामाइयकारओ एवं ॥ ३४३८ ॥
व्याख्या-कुम्भो विशीर्यमाणो विशरणक्रियायाः कर्तृत्वेन विवक्षितः कर्ता भवति । स एव च विशरणक्रियाव्याप्यत्वेन विवक्ष्यमाणः कर्म संपद्यते, 'तेन घटपर्यायेण कृत्वा विशीर्यते' इति करणत्वेन विवक्ष्यमाणः स एव करणं संज्ञायते । एवं यथैकोऽपि पदार्थो विवक्षया नानाकारकभावं लभते, यथा वा मत्यादिज्ञानादनन्योऽभिन्नो ज्ञानी जीवो निजकात्मविषयः स्वसंवेदनरूपो य उपयोगस्तत्काल एकोऽपि त्रिस्वभावो भवति; तथाहि-स्वोपयोग उपयुज्यमानोऽसौ कर्ता भवति, संवेद्यमानत्वेन तु कर्म, करणभूतज्ञानानन्यत्वाच्च करणमिति । एवं सामायिककारक एकोऽपि विवक्षया कर्तृ कर्म-करणस्वभावो द्रष्टव्य इति ॥ ३४३७ ॥ ३४३८ ॥ तदेवं करणं व्याख्यातम्, तद्वयाख्याने च 'करोमि' इति सामायिकस्य प्रथमावयवो व्याख्यातः ॥
अथ 'भदन्त !' इति द्वितीयावयवं व्याचिख्यासुराहभेदि कल्लाण-सुहत्थो धाऊ तस्स य भदंतसद्दोऽयं । स भदंतो कल्लाणो हो य कल्लं किलारुग्गं ॥ ३४३९ ॥ तं तच्चं निव्वाणं कारण कजोवयारओ वावि । तस्साहणमणसद्दो सहत्थो अहव गच्चत्थो ॥ ३४४०॥
१ कुम्भो विशीर्यमाणः कर्ता कर्म स एव करणं च । नानाकारकभावं लभते यथैको विवक्षया ।। ३४३७ ॥
यथा वा ज्ञानानन्यो ज्ञानी निजकोपयोगकाले । एकोऽपि त्रिस्वभावः सामायिककारक एवम् ॥ ३४३८ ॥ २ भदि कल्याण-सुखार्थों धातुस्तस्य च भदन्तशब्दोऽयम् । स भदन्तः कल्याणः सुखश्च कल्यं किलारोग्यम् ॥ ३४३९॥ तत् तथ्य निर्वाणं कारणे कार्योपचारतो वापि । तत्साधनमणशब्दः शब्दार्थोऽथवा गत्यर्थः ॥ ३४४०॥
॥१३०३॥
10.
For Personal and
Use Only
KAww.janabrary.org