SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥१३०४॥ Jain Education h कैल्लमणइ त्ति गच्छइ गमयइ व बुज्झइ व बोहयइ वत्ति । भणइ भणात्रेइ व जं तो कल्लाणो स चायरिओ ||३४४१॥ ६२३ बृहद्वृत्तिः । व्याख्या -' भदि कल्याणे सुखे च' इति भदिधातुः कल्याणार्थ ः सुखार्थश्च । तस्य मदिधातोर्भदन्त इत्यौणादिकमत्यये भदन्तशब्दोऽयं निष्पद्यते । ततः स्थितमिदं स भदन्तः कल्याणः सुखश्च । तत्र कल्याणशब्दव्युत्पादनार्थमाह-'कल्लं किलारुगं' उच्यत इति । तच्चारोग्यं तथ्यं निरुपचरितं निर्वाणमेवावगन्तव्यम् अथवा, कारणे कार्योपचारात् तत्साधनं दर्शन-ज्ञान चारित्रलक्षणं निर्वाणकारणमवसेयम् । अणशब्दस्तु अणधातोरुभयार्थत्वात् शब्दार्थो गत्यर्थो वा द्रष्टव्य इति । ततश्च कल्यं यथोक्तमारोग्यमणति गच्छत्यन्तर्भूतण्यर्थत्वेनापरान् गमयति, बुध्यते स्वयं, बोधयति वा परान् । शब्दार्थत्वेऽपि कल्यमणति स्वयं भणति, परैश्च भाणयति यस्मात् तस्मात् कल्याणः । स चेहाचार्यो गुरुबद्धव्य इति ।। ३४३९ ।। ३४४० ।। ३४४१ ।। अथवा, कलधातुः शब्दार्थः संख्यानार्थो वा 'कल शब्द संख्यानयो:' इति धातुपाठात् तस्य 'कल्यम्' इति निपात्यते । ततश्च कल्यं शब्दं शब्दशास्त्रं संख्यानं वा गणितं यस्पादणति शब्दयति प्रतिपादयते बुध्यते बोधयति वा, तेन तस्मात् कल्याणो गुरुरित्येतदेवाह - अहवा कल सद्दत्थो संखाणत्थो य तस्स कल्लं ति । सदं संखाणं वा जमणइ तेणं च कल्लाणो ॥ ३४४२ ॥ तार्था ।। ३४४२ सुखस्तर्हि कथमाचार्यः १ इत्याह- पसंत्थाखाणिदियाणि सुद्धिंदिओ सुहोऽभिमओ । वस्सिंदिओ जमुत्तं असुहो अजिइंदिओऽभिमओ ॥ ३४४३ ॥ सुहमहवा निव्वाणं तच्चं सेसमुवयारओऽभिमयं । तस्साहणं गुरु त्तिय सुहमने पाणसण्ण व्व ॥ ३४४४ ॥ १ कल्यमणतीति गच्छति गमयति वा बुध्यते वा बोधयति वेति । भणति भाणयति वा यत् ततः कल्याणः स आचार्यः ॥ ३४४१ ॥ २ अथवा कल शब्दार्थः सख्यानार्थश्च तस्य कल्यमिति । शब्द संख्यानं वा यदणति तेन च कल्याण: ।। ३४४२ ॥ ३ सुप्रशंसार्थः खानीन्द्रियाणि शुद्धेन्द्रियः सुखोऽभिमतः । वश्येन्द्रियो यदुक्तम सुखोऽजितेन्द्रियोऽभिमतः ।। ३४४३ ।। सुखमथवा निर्वाणं तथ्यं शेषमुपचारतोऽभिमतम् । तत्साधनं गुरुरिति च सुखमन्ने प्राणसंज्ञेव || ३४४४ ॥ For Personal and Private Use Only ॥१३०४॥ www.jainelibrary.org
SR No.600168
Book TitleVisheshavashyak Bhashya Part 07
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy