________________
विशेषा ०
॥१३००॥
Jain Education in
कर्मभूतस्य सामायिकस्य कर्तुर्जीवादन्यत्वे मिथ्यादृष्टेरिव 'से' तस्य कर्तृजीवस्य सामायिकजन्यसमभावाभाव एव स्यात्, अन्यत्वाविशेषात् । ततश्च तत्प्रयोजनभूतस्य मोक्षसुखस्याभाव एव प्राप्नोति । अपरं च अयं कृतसामायिकः सम्यग्दृष्टिः, अयं तु मिथ्यादृष्टिः, इत्ययमविशेष एव स्यात्, उभयोरपि सामायिकस्यान्यत्वाविशेषादिति ।। ३४२६ ।।
पर एवाचार्यमाशङ्कते -
हवा मई भिन्ने विघणेण सघणो त्ति होई ववएसो । सघणो य घणाभागी जह तह सामाइयस्सामी ॥ ३४२७॥ अथवा, अत्र सूरे! तवेयं मतिः स्यात् भिन्नेनापि धनेन 'सधनः' इति व्यपदेशो लोके भवति, अपरं चासौ सघनो धनाभागी धनफलभोक्ता यथा दृश्यते तथा भिन्नस्यापि सामायिकस्य स्वामी सामायिकवांस्तत्फलभोक्ता भविष्यति, न्यायस्य समानत्वादिति ॥ ३४२७ ॥
तदेतत् परः परिहरति-
"तं न जओ जीवगुणो सामाइयं तेण विफलया तस्स । अन्नत्तणओ जुत्ता परसामाइयस्स वाऽफलया || ३४२८ ॥
तदेतत् सूरे | स्वदुक्तं न यतो जीवगुणः सामायिकम् तेन जीवगुणस्य सामायिकस्य गुणिनो जीवादन्यत्वे विफलता निष्फ लता युक्ता, धनं तु धनिनो गुणो न भवति, तेन तस्य भिन्नस्यापि सफलताऽस्त्विति भावः, यथा परसामायिकस्य विवक्षितजीवमपेक्ष्यान्यत्वादफलतेति ॥ ३४२८ ।।
अपि च,
जैइ भिन्नं भावे वितओ तस्सभावरहिउ ति । अन्नाणी च्चिय निच्चं अंधो व समं पईवेण ॥ ३४२९ ॥ यदि कर्तुर्जीवादभिन्नं सामायिकम्, तदा तद्भावेऽपि भिन्नसम्यक्त्वादिसामायिकप्रस्तावेऽपि तकोऽसौ कर्तृजीवस्तत्स्वभावरहितः सम्यक्त्वादिसामायिकस्वभावरहित इति कृत्वाऽज्ञान्येव स्यात् यथा भिन्नेन प्रदीपेन समं वर्तमानोऽपि स्वस्वभावभूतचक्षु
१ अथवा मतिभिन्नेनापि धनेन सधन इति भवति व्यपदेशः । सधनश्च धनाभागी यथा तथा सामायिकस्वामी ।। ३४२७ ॥ २ तद् न यतो जीवगुणः सामायिकं तेन विफलता तस्य । अन्यत्वतो युक्ता परसामायिकस्येवाफलता ।। ३४२८ ।। १३ यदि भिन्नं तद्भावेऽपि सकस्तत्स्वभावरहित इति । अज्ञान्येव नित्यमन्ध इव समं प्रदीपेन ॥ ३४२९ ।।
For Personal and Private Use Only
बृहद्वृतिः ।
॥१३००॥
www.jainelibrary.org