________________
विशेषा
बृहद्वृत्तिः।
॥१२५३॥
___ व्याख्या- यथा दूरस्थेऽपि बन्धौ बान्धवजने सुखिनि श्रुते तत्सुखवार्तासंकल्पजनिता धृतिः कस्यापि तद्वान्धवस्य दूरस्थ- 18
स्थ स्यापि शरीरपुष्टि बलहेतुर्भवति, कचित्तु प्रस्तावे तस्मिन्नपि दु:खिनि श्रुते शोकादिसंकल्पस्तनुदौर्बल्यादिफलः संपद्यते, तथा तेनैव प्रकारेण दूरसंस्थेऽपि सिद्धाद्यालम्बने तद्गुणबहुमानरूपत्वात् शुद्धपरिणामः सद्धर्मफलोऽविशुद्धस्तु पापफलः संजायते । अतो दूरस्थपासनं वा सिद्धाद्यालन्वनामेति को भेदः ? केयं निष्फला तद्भेदचिन्ता ? इत्यर्थः । अथवा, आत्मस्वभावोऽयं तद्गुणबहुमानलक्षणशुभपरिणामस्तेन तस्मादिह यदनात्मस्वभावं किपपि वस्तु तत् सर्वमप्यस्य विपरीतरूपत्वाद् दूरस्थमेव । अथालम्बनत आलम्बनभावमाश्रित्य चिन्त्यते, ततस्तर्हि सर्वमप्य ईत्-सिद्धादिकं वस्तु तस्य यथोक्तात्मपरिणामस्यासन्नमेवेति । अतः का सिद्धेषु दूरस्थता ? इति ॥३२८२॥ ३२८३ ।। ३२८४॥
अत्राक्षेप-परिहारावाह - जह सपरिणामउ च्चिय धम्मोऽधम्मो व्व कित्थ बज्झेण । जे बज्झालंबणओ सो होइ तओ तदत्थं तं ॥३२८५॥
ननु यदि स्वगतपरिणामादेव धर्मोऽधर्मश्च भवति, तर्हि किमत्र बाह्येनाईत् सिद्धाद्यालम्बनेनापेक्षितेन, स्वपरिणामत एव कार्यसिद्धेस्तदपेक्षाया निष्फलत्वात् ? इति । मूरिराह-यस्मात् सोऽपि परिणामो बाह्यालम्बनत एव भवति, नान्यथा, ततस्तदर्थ स्वपरिणामोत्पादनार्थं तद् बाह्यालम्बनमपेक्ष्यत इति ॥ ३२८५ ॥
एतदेव भावयतिपरिणामो बज्झालंबणो सया चेव चित्तधम्मो त्ति । विण्णाणं पिव तम्हा सुहबझालंबणपयत्तो ॥ ३२८६ ॥
शुभोऽशुभो वा परिणामः सदैव बाह्यालम्बनत एव प्रवर्तते, चित्तधर्मत्वान, विज्ञानवदिति, यथा विज्ञानं बाह्यं नील-पीतादिकं | वस्तु विना न प्रवर्तत एवं परिणामोपीति भावः । तस्मादिह मोक्षाधिकार शुभवाह्यालम्बनप्रयत्नो मोक्षार्थिनामिति ।। ३२८६ ॥ अत्र पर: प्राह
१ यदि स्वपरिणामत एव धर्मोऽधर्म इव किमत्र बाह्येन ? । यद् बाह्यालम्बनतः स भवति ततस्तदर्थ तत् ।। ३२८५ ।। २ परिणामो बाह्मालम्बनः सदैव चित्तधर्म इति । विज्ञानमिव तस्मात् शुभवाह्यालम्बनप्रयनः ॥ ३२८६ ।।
॥१३५३॥
Jain Educationa Intentatic
For Personal and Price Use Only
www.jainelibrary.org