SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ विशेषा० ।। १२५२ ।। Jain Education Int अथ परमतमाक्षिप्य परिहरन्नाह - अब मई मुत्तिमओ गुणपूया होइ मुत्तिपूयाओ । तग्गुणसंबंधाओ सिद्धगुणाणं तु सा नत्थि ॥ ३२७९ ॥ पूया मुत्ति-गुणाणं संबंधे फलमितीह को हेऊ ? । अन्नो परिणामाओ तस्स य को केण संबंधो ? ॥ ३२८० ॥ नियत्थो परिणामो वज्झत्थालंबणनिमित्तमित्तागो । देइ फलं सव्बो च्चिय सिद्धगुणालंबणो चेत्रं ॥ ३२८१ ॥ सुगमाः, नवरं 'पूयेत्यादि' परिहारवचनम्, पूजा च मूर्तिश्च गुणाश्च तेषां पूजा-मूर्ति गुणानां त्रयाणामपि संबन्ध एवाभिमतं फलमवाप्यत इतीह स्वगतत्रिशुद्धपरिणामादन्यः को हेतुः १ न कोऽपीति । तस्य च स्वगतपरिणामस्य कः संबन्धः केनचिद् बाह्येन ? न कश्चिदिति; केवलं निजहृदयस्थशुभपरिणामो यथा बाह्याईदाद्यालम्बनानिमित्तमात्रकः सर्वोऽपि ददात्यभिमतफलमेत्रममूर्त सिद्धगुणालम्बनोऽपीति ।। ३२७९ ।। ३२८० ।। ३२८१ ॥ अथ यदुक्तम्- 'दुराइभावओ वा विफला सिद्धाइपूया' इति, तत्र 'दूराभावात्' इत्यस्य हेतोर्निराकरणार्थमाह - जैह दूत्थे विधि बंधुम्मि सरीरपुट्ठिबलहेऊ । तणुदोच्चलाइफलो कत्थइ सोगाइसको || ३२८२ ॥ तह परिणामो सुद्धो धम्मफलो हि दूरसंथे वि । अविसुद्धो पावफलो दूरासन्नं ति को भेओ ? || ३२८३ ॥ अवायसभावोऽयं परिणामो तेण सव्वमेवेह | दूरमहालंबणओ तस्सासन्नं तओ सव्वं ॥ ३२८४ ॥ १ अथवा मतिमूर्तिमतो गुणपूजा भवति मूर्तिपूजातः । तद्गुण संबन्धात् सिद्धगुणानां तु सा नास्ति ।। ३२७९ ।। पूजा - मूर्ति गुणानां संबन्धे फलमितीह का हेतुः ? । अन्यः परिणामात् तस्य च कः केन संबन्धः १ ॥। ३२८० ॥ निजार्थ: परिणामो बाह्यार्थलम्बननिमित्तमात्रकः । ददाति फलं सर्व एव सिद्धगुणालम्बनश्चैषम् || ३२८१ ।। २ यथा दूरार्थेऽपि धृतिर्ब्रन्धौ शरीरपुष्टि- बलहेतुः । तनुदौर्बल्यादिफलः कचित् शोकादिसंकल्पः ।। ३२८२ ।। तथा परिणामः शुद्धो धर्मफलो हि दूरसंस्थेऽपि । अविशुद्धः पापफलो दूरासन्नमिति को भेदः ? ।। ३२८३ ।। अथवात्मस्वभावोऽयं परिणामस्तेन सर्वमेवेह | दूरमथालम्बनतस्तस्यासन्नं ततः सर्वम् ।। ३२८४ ॥ For Personal and Private Use Onty बृहद्वृत्तिः । ॥१२५२ ॥ www.jainelibrary.org
SR No.600168
Book TitleVisheshavashyak Bhashya Part 07
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy