SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥१२२१॥ Jain Education Inter 'जेा उ पंचसयधस्स मज्झा य सत्तहत्थस्स । देहत्तिभागहीणा जहन्निया जा विहत्थस्स ॥ ३१६६ ॥ पाठसिद्धा ।। ३१६६ ॥ अत्र विनेयप्रश्नमुत्तरं चाह- केह मरुदेवीमाणं नाभीओ जेण किंचिदूणा सा । तो किर पंच सय च्चिय अहवा संकोयओ सिद्धा ||३१६७॥ ननु मरुदेवीसिद्धस्य कथं 'तिनि सया तेत्तीसा' इत्यादि मानं घटते ? । सा हि नाभिकुलकरपत्नी, नाभेश्च पञ्चविंशत्यधिकानि पञ्चधनुःशतानि प्रमाणमागमे प्रोक्तम्, यदेव चास्य मानं तदेव मरुदेवाया अपि ""संघयणं संठाणं उच्चत्तं चैव कुलकरेहिं समं" इति वचनात् । ततस्तस्या देहमानस्य त्रिभागे पतिते सिद्धावस्थायां सार्धानि त्रीणि धनुःशतान्यवगाहना प्रामोतीति पृच्छतोऽभिप्रायः । अत्रोत्तरमाह-- येन यस्माद् नाभिकुलकरमानात् प्रमाणतोऽसौ किञ्चिद् न्यूना । ततः किल पञ्चधनुःशतमानैवेत्यदोषः । ' कुलकरेहिं समं' इत्यतिदेशोऽपि न बाधकः कियतापि न्यूनाधिक्येऽप्यतिदेश। नामागमे दर्शनादिति । अथवा, हस्तिस्कन्धाधिरूढत्वात् संकोचतः संकुचिताङ्गी सिद्धेयमिति न यथोक्तावगाहनाविरोध इति ।। ३१६७ ।। अथ जघन्यावगाहनायां प्रेर्य परिहारं चाह- I तूसिसु सिद्धी जहन्नओ कहमिहं विहत्थेसु ? । सो किर तित्थयरेसुं सेसाणं सिज्झमाणानं ॥३१६८ ॥ ननु जघन्यपदे सप्तहस्तोच्छ्रितेषु सिद्धिः सिद्धान्ते निर्दिष्टा, इह तु 'ऍगाइ होइ रयणी' इत्यादिवचनात् कथं द्विहस्तेष्वसौ प्रोच्यते ? । अत्र निर्वचनमाह- या सिद्धान्ते सप्तहस्तानां सिद्धिरुक्ता सा किल महावीरादितीर्थकरेषु द्रष्टव्या, इह तु द्विहस्तानां सिद्धिः शेषाणां सामान्यकेवलिनां सिध्यतां मन्तव्येति ।। ३१६८ ।। के पुनर्द्विहस्ताः सिध्यन्ति : इत्याह- १ ज्येष्ठा तु पञ्चशतधनुषो मध्या च सप्तहस्तस्य । देहत्रिभागहीना जघन्यिका सा द्विहस्तस्य ॥ ३१६६ ॥ २ कथं मरुदेवीमानं नाभितो येन किञ्चिदूना सा । ततः किल पञ्च शतान्येवाथवा संकोचतः सिद्धा ॥ ३१६७ ॥ ३ संहननं संस्थानमुच्चत्वं चैव कुलकरैः समम् । ४ सप्तोच्छ्रितेषु सिद्धिर्जघन्यतः कथमिह विहस्तेषु ? स किल तीर्थंकरेषु शेषाणां सिध्यताम् ॥ ३१६८ ॥ ५ एकादिर्भवति हस्तः । For Personal and Private Use Only | बृहद्वत्तिः । | ॥१२२१॥ www.jainelibrary.org
SR No.600168
Book TitleVisheshavashyak Bhashya Part 07
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy