SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥१३२७॥ Jain Educationa h 1661 पुद्गलाः सोऽपि द्रव्यकायो भवति । किं सर्वदा ? । नेत्याह- यावत् प्रयोगपरिणता यावत्तं जीवप्रयोगपरिणामं न मुञ्चन्तीत्यर्थः । तं च जीवमयोगपरिणामं ते मुक्ताः पुद्गला जघन्यतोऽन्तर्मुहूर्तम् उत्कृष्टतस्त्वसंख्येयं कालं न मुञ्चन्ति ततः परं त्ववश्यं परित्यजन्ति तमि ति । ये पुनर्जीवेन बद्धा औदारिकादिकायपरिणतिमापन्नाः पुद्गलास्ते भावतः कायो भावकाय इत्यर्थः || ३५२७॥३५२८॥ तदेवं मनःप्रभृति त्रिविधं करणं व्याख्याय प्रस्तुतयोजनामाह - "तेण तिविहेण मनसा वाया कारण किं तयं तिविहं । पुव्वाहिगयं जोगं न करेमिच्चाइ सावज्जं ||३५२९ ॥ तेन यथेाक्तस्वरूपेण त्रिविधेन करणेन मनसा वाचा कायेन मनो वाक-काय लक्षणेनेत्यर्थः । किम् ? अत आह-तकं पूर्वाधिकृत त्रिविधं सावयं योगं न करोमीत्यादि संबध्यते न करेमि, न कारवेमि, करंतंपि अल्णं ण समजुजाणामि, इति संबध्यत इत्यर्थः ॥ ३५२९ ॥ अथवा, अन्यथा संबन्धयन्नाह - पुव्वं व जमुद्दिनं तिविहं तिविहेण तत्थ करणरस । तिविहन्तणं विवरीयं मणेण वायाए कारणं ॥ ३५३० ॥ तिविहमियाणि जोगं पञ्चक्खयमणुभास सुतं । किं पुणरुक्क मिऊणं जोगं करणस्स निद्देसो ? ॥३५३१॥ तो न जहुद्देसं चिय निद्देसो भण्णए निसामेहि । जोगस्स करणततोवदरिसणत्थं विषज्जासो ॥३५३२॥ देसियमेवं जोगो करणवसो निययमप्पहाणो ति । तब्भावे भावाओ तदभावे वप्पभावाओ ॥ ३५३३ ॥ व्याख्या - अथवा, पूर्व सूत्रे यदुद्दिष्टं 'त्रिविधं त्रिविधेन' इति, तत्र करणस्य त्रिविधत्वम् – 'पणेणं, वायाए, कापणं' इति सूत्रगतेनैवावयवेन विवृतं व्याख्यातमिति । इदानीं तु त्रिविधं प्रत्याख्येयं योगं सूत्रमनुभाषते विवृणोति - ' न करेमि, न कारवेमि' १ तेन त्रिविधेन मनसा वाचा कायेन किं तत् त्रिविधम् । पूर्वाधिकृतं योगं न करोमीत्यादि सावद्यम् ।। ३५२९ ।। २ पूर्व वा यदुद्दिष्टं त्रिविधं त्रिविधेन तत्र करणस्य । त्रिविधत्वं विवृतं मनसा वाचा कायेन || ३५३० ।। त्रिविधमिदानीं योग प्रत्याख्येयमनुभाषते सूत्रम् । किं पुनरुत्क्रम्य योग करणस्य निर्देश: ? ।। ३५३१ ।। ततो न यथोद्देशमेव निर्देशो भण्यते निशमय । योगस्य करणतन्त्रोपदर्शनार्थ विपर्यासः || ३५३२ ।। देशितमेवं योगः करणवशो नियतमप्रधान इति । तद्भावे भावात् तदभावे वाप्यभावात ।। ३५३३ ।। For Personal and Private Use Only बृहद्वृत्तिः । ॥१३२७॥ janelbrary.org
SR No.600168
Book TitleVisheshavashyak Bhashya Part 07
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy