________________
विशेषा
॥१३२८॥
इत्यादिनैव सूत्रावयवेन । अत्राह पर:- ननु यद्येवम्, तर्हि किं पुनः कारणम्, येन योगमुत्क्रम्यातिलङ्घच करणस्य प्रथमं निर्देश कृतः । उद्देशकाले हि प्रथमं 'त्रिविधम्' इत्युदेशाद् योग एव प्रथममुद्दिष्टः, तदनन्तरं 'त्रिविधेन' इत्यभिधानात् पश्चात् करणस्योद्देशः कृतः । एवं च सति 'यथोदेशं निर्देशः' इति न्यायादिह निर्देशोऽपि प्रथमं योगस्य, पश्चात् करणस्य पामोति, तद्यथा-'न करेमि, न कारवेमि, करतं पि अण्णं ण समणुज्जाणामि मणेणं वायाए कारणं' इति । न चैवं निर्दिष्टम्, व्यत्ययाभिधानादिति । 'तो त्ति' ततो न यथाद्देशमेव निर्देशोऽत्र संजातः, तत् किमत्र कारणमिति वाच्यम् ? । गुरुराह-निशमयाकर्णय, मण्यतेऽत्र कारणम्-करणादिलक्षणस्य योगस्य करणतन्त्रोपदर्शनार्थ मनो-वाक् कायलक्षणकरणायत्ततोपदर्शनार्थमयं व्यत्यासः कृत इति । एतदेव भावयति-देशितमुपदिष्टमेवं व्यत्यासकरणेन भगवता सूत्रकना-योऽयं करणकरणादिव्यापारलक्षणो योगः स मनःप्रभृतिकरणवशस्तदायत्त इति नियतं निश्चितं स्वयमप्रधानः, तद्भावे करणभाव एव भावात्, तदभावेऽपि च करणाभावेऽवश्यमभावादिति ॥३५३०॥३५३१॥३५३२।।३५३३॥
किमिति योगः करणभाव एव भवति, तदभावे तु न भवति ? इत्याहतस्स तदाधाराओ तकारणओ य तप्परिणईओ। परिणतुरणथंतरभावाओ करणमेव तओ ॥ ३५३४ ॥
तस्य योगस्य तदाधारत्वात् करणाधारत्वात्, तथा, तद् मनःप्रभृति करणमेव कारणं यस्य स तत्कारणस्तद्भावस्तत्वं तस्मात् , कारणत्वात् तस्य योगस्य, तथा, तत्परिणतित्वात् करणपरिणतिरूपत्वात् तस्य तथा, परिणन्तुः करणस्याऽनर्धान्तरत्वादनन्यत्वात् तस्य, यतः करणमेव तकोऽसौ योगः, ततस्तदात्मकत्वात् तद्भाव एव भवति, तदभावे तु न भवति । आह-यद्येवम्, उद्देशोऽप्येवं कस्माद् न कृतः १ । उच्यते-योगस्यापि प्रत्याख्येयत्वेन प्राधान्यख्यापनार्थमिति । तदेवं योगस्य करणात्मकत्वं दर्शितम् ॥३५३४॥
अथ करण-योगयोः पुन: समुदितयोर्जीवात्मकत्वं दर्शयन्नाहऐतो च्चिय जीवस्स वि तम्मयया करण-जोगपरिणामा । गम्मइ नयंतराओ कयाइ, समए जओऽभिहियं ॥३५३५॥
यत एव परिणन्तुः परिणामोऽनर्थान्तरमुक्तम्, अत एव जीवस्यापि तन्मयता स्वपरिणामरूपकरणयोगात्मता गम्यते । कुत इत्याह-'करणजोगपरिणाम त्ति' करणं च योगश्च करण-योगौ तौ परिणामः स्वभावौ यस्यासौ करणयोगपरिणामस्तद्भावस्तत्वं
१ तस्य तदाधारात् तत्कारणतश्च तत्परिणांततः । परिणन्तुरनान्तरभावात् करणमेव सकः ।। ३५३४ ।। २ एतस्मादेव जीवस्यापि तन्मयता करणयोगपरिणामात । गम्यते नयान्तरात् कदाचित् , समये यतोऽभिहितम् ।। ३५३५ ॥
॥१३२८॥