________________
विशेषा ०
॥१३२६ ॥
Jain Education h
'मन ज्ञाने' 'मनु बोधने' वा, मननम्, मन्यते वाऽनेनेति मनस्तेन मन उच्यते । तच्च द्रव्यतो द्रव्यमनस्तद्योग्यपुद्गलमयं द्रष्टव्यम् । भावमनस्तु मन्ता जीवो भण्यते । इदमुक्तं भवति-मनो द्विविधम्-द्रव्यमनः, भावमनश्च । तत्र यत् तद्योग्यैर्मननयोग्यैर्मनो वर्गणाभ्यो गृहीतैरनन्तेः पुद्गलैर्निर्वृत्तं तद् द्रव्यमनो भण्यते । यत्तु तज्जन्यं मननं चिन्तनं तद् भावमनोऽभिधीयते, इह तु तदव्यतिरिक्तत्वाद् मन्ता rial भावनस्त्वेनेोक्त इति ॥ ३५२५ ॥
वाक्करणमाह
ari वागुच्चए वाsee त्ति वायत्ति दव्वओ सा य । तज्जोग्गपोग्गला जे गहिया तप्परिणया भावो ॥३५२६ ॥ वचनं वारा, उच्यते वाऽनयेति वाग् । सा च द्रव्यतो द्रव्यवागतद्योग्या भावयोग्या भाषावर्गणाभ्यो गृहीताः पुगळा इति । ये तु तत्परिणता भाषात्वेन परिणता उच्यमानाः पुद्गलाः सा भावो भाववागिति ||३५२६ ||
कायकरणमाह
जीवरस निवासाओ पोग्गलचयओ य सरणधम्माओ । काओऽवयवसमाहाणओ य दव्व-भावमओ || ३५२७॥ तज्जोग्गपुग्गला जे मुक्का य पओगपरिणया जाव । सो होइ दव्वकाओ बद्धा पुण भावओ काओ || ३५२८ ॥
व्याख्या- 'चिव् चयने' इति धातोश्चयनं कायः चीयतेऽनेनेति वा कायो निवास- चिति-शरीरो-पसमाधानेषु, “आदेश कः” इत्यनेनादेरिह ककारः, अत एवाह - जीवस्य काये निवासात्, पुद्गलानां चयात्, प्रतिक्षणं च विशरणधर्मकत्वात् शिर-उरो बाहा द्यवयवानामिह सम्यगाधानाच्च कत्वविधानहेतवो निवासादयोऽर्था मन्तव्याः । स च कायो द्रव्य भावमयो बोद्धव्यः - द्रव्यकायः, भाव कायश्चेत्यर्थः । तत्र य औदारिकादिवर्गणागतास्तद्योग्या औदारिकादिकाययोग्या औदारिककायपरिणतेरभिमुखतां प्राप्ता जीवेन पुनरद्याप्यगृहीताः पुद्गलाः स द्रव्यकायः, न केवलं त एव, किन्तु य औदारिकादिकायरूपतया परिणमय्य जीवेन मुक्तास्त्यक्ताः
१ वचनं वागुच्यते वाऽनयेति वागिति द्रव्यतःः सा च । तद्योग्यपुद्गला ये गृहीतास्तत्परिणता भावः || ३५२६ ||
२ जीवस्य निवासात् पुगलचयतश्च शरणधर्मात् कायोऽवयवसमाधानतश्च द्रव्य भावमयः || ३५२७॥
योग्यपुद्गला ये मुक्ताश्च प्रयोगपरिणता यावत् । स. भवति द्रव्यकायो बद्धाः पुनर्भावतः कायः ॥ ३५२८ ।।
For Personal and Private Use Only
बृहद्वृत्तिः ।
| ॥१३२६ ॥
www.jainelibrary.org