SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ विशेषा ० ॥। १२२७॥ Jain Education Interna व्याख्या - यस्माच्च बीजाऽङ्कुरयोरिव तनुकर्मणोर्या संततिः संतानस्तन्नाशो मोक्ष इष्यते भवद्भिः, न चास्मात् संतानाद् व्यतिरिक्तः संतानी जीवो दृश्यते । ततश्च ननु कर्मसंततिविनाशे जीवस्यापि तद्वदेव नाशात् सर्वनाश एव मोक्षो युज्यत इति । 'भवो व त्ति' वाशब्दश्वशब्दार्थे । यस्माद् भवश्व संसारो नारक-तिर्यग्-नरा-मररूपेण भाव एवोच्यते नापरः, न च नारकादिभ्यो भिन्नो जीवः कोsपि दृश्यते, ततो नारकादिनाशे नारकादिभावरूपभवविनाश इत्यर्थः, 'तन्नासो चि' नारकायव्यतिरिक्तत्वात् तस्यापि जीवस्य सर्वथा नाश एव युज्यत इत्यर्थः ।। ३१८६ ।। ३१८७ ।। अमेवार्थ दृष्टान्तोपन्यासेन समर्थयन्नाह जैह तंतुमओ पडओ तंतुविणासम्मि सव्वहा नत्थि । तह नारगाइमइओ जीवो तदभावओ नत्थि ॥ ३१८८ || ॥ इति गाथापट्कार्थः ॥ ३१८८ ॥ ' न हि नारगाई' इत्यादिकास्तु 'कयगाइभावओ' इत्यादिगाथापर्यन्ता एकोनत्रिंशगाथाः पूर्वमेकादशादिगणधरवादे व्याख्याताः ॥ 'सिद्ध त्ति य' इत्यादिकास्तु षड् निर्युक्तिगाथाः, सुगमाचेति ॥ ॥ इति सिद्धनमस्कारः समाप्तः ॥ अथाचार्यनमस्कारमभिधित्सुराह— नामं ठवणा दविए भावे य चउव्विहो य आयरिओ । दव्वम्मि एगभवियाइ लोईए सिप्पसत्थाई ॥ ३१८९॥ पंचविहं आयारं आयरमाणा तहा पयासेंता । आयारं दंसेता आयरिया तेण वुच्चति ॥ ३१९० ॥ इह नाम स्थापने सुगमे ।। ३१८९ ।। ३१९० ॥ द्रव्यविचारे पुनराह - १ यथा तन्तुमयः पटकस्तन्तुविनाशे सर्वथा नास्ति । तथा नारकादिमयो जीवस्तदभावतो नास्ति ॥ ३१८८ ॥ २ नाम स्थापना द्रव्ये भावे च चतुर्विधश्चाचार्यः । द्रव्य एकभविकादिलौकिके शिल्पशास्त्रादिः ॥ ३१८९ ॥ पञ्चविधमा चारमाचरन्तस्तथा प्रभाषमाणाः । आचारं दर्शयन्त आचार्यास्तेनोच्यन्ते ॥ ३१९० ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥१२२७॥ www.jainelibrary.org
SR No.600168
Book TitleVisheshavashyak Bhashya Part 07
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy