SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ विशेषा० ।। १२११ ॥ Jain Education Internat भणितम् ; तद्यथा - "एएसि णं भंते जीवाणं सागारोवउत्ताणं अणगारोवउत्ताणं य कयरे कयरेहिंतो अप्पा वा, बहुया वा, तुला वा, विसेसाहिया वा ? । गोयमा ! सव्वत्थोवा जीवा अणगारोवउत्ता, सागारोवउत्ता संखिज्जगुणा" । युगपदुभयोपयोगोपयुक्तानां तु मिश्राणां तृतीयानामिहाल्पबहुत्वं न भणितम् । यदि पुनः केवलिनां युगपदुपयोगद्वयं भवेत्, तदैवं सति साकारा अनाकार मिश्रोयोगवतां त्रयाणामेव पदानामल्पबहुत्वं भवेत्, न द्वयोरिति ।। ३१२४ ॥ ३१२५ ।। अत्र परशङ्कां परिहारं वाह अह मई छउमत्थे पडुच्च सुत्तमिणं तो न केवलिणो । तं पिन जुज्जइ जं सव्वसत्तसंखाहिगारोऽयं ॥ ३१२६ ॥ सुगमा, नवरं व्याप्त्या सर्वजीवसंख्याधिकारे निर्दिष्टत्वाद् नेदं सूत्रं छद्मस्थविषयं वक्तुं युज्यत इति ।। ३१२६ ॥ अथ सर्वजीवाधिकारोऽयं न भवति, तत्राह काउं सिद्धग्गहणं बहुवत्तव्वयपदेसु सव्र्व्वसु । इह केवलमग्गहणं जइ तो तं कारणं वच्चं ? ॥३१२७ ॥ यदि सर्वजीवाधिकारोऽयं न भवति, तर्हि 'गइ इंदिए य काए जोए वेए कसाय-लेसासु' इत्यादिष्वन्येष्वल्पबहुवक्तव्यताविचारविषयभूतेषु पदेषु सिद्धिगतिकान् इन्द्रिय-काय योग-कषाय- लेश्या-नोसंयत-नोपरीतादिपदैः पृथक् सिद्धग्रहणं कृत्वा केवल मिहैवोपयोगपदे पृथक् तदग्रहणं करोति, ततस्तत्र कारणं वाच्यम् । यदि हि च्छद्मस्थाधिकारत्वादिह तदग्रहणमित्युच्यते, तर्हि शेषपदेषु सिद्ध-केवलिग्रहणमयुक्तं स्यात् । तस्मात् सर्वजीवाधिकार एवायम्, केवलमाहारकाऽनाहारकऽभाषकाभाषकादिपदद्वयेनेवानेन साकाराSनाकारोपयोग पदद्वयेन सिद्ध केवलिनां गृहीतत्वादिह पृथक् तदग्रहणमिति ।। ३१२७ ॥ आगमान्तरतोऽप्यत्र च्छद्मस्थाधिकारशङ्कां निवर्तयन्नाह - अहवा विसेसियं चिय जीवाभिगमम्मि एयमप्पबहुं । दुविह त्ति सव्वजीवा सिद्धासिद्धाइआ जत्थ ॥३१२८॥ १ एतेषां भगवन् ! जीवानां साकारोपयुक्तानामनाकारोपयुक्तानां च कतरे कतरेभ्योऽल्पा वा, बहुका वा, तुल्या वा, विशेषाधिका वा ? । गौतम ! सर्वस्तोका जीवा अनाकारोपयुक्ताः, साकारोपयुक्ताः संख्येयगुणाः । २ अथवा मतिरछद्मस्थान् प्रतीत्य सूत्रमिदं ततो न केवलिनः । तदपि न युज्यते यत् सर्वसत्वसंख्याधिकारोऽयम् ॥ ३१२६ ॥ ३ कृत्वा सिद्धग्रहणं बहुवक्तव्यतापदेषु सर्वेषु । इह केवलमग्रहणं यदि ततस्तत् कारणं वाच्यम् ? ॥ ३१२७ ॥ ४ अथवा विशेषितमेव जीवाभिगम एतदल्पबहुत्वम् । द्विविधा इति सर्वजीवाः सिद्धा ऽसिद्धादिका यत्र ॥ ३१२८ ॥ For Personal and Private Use Only बृहद्वृत्तिः ॥ ॥१२११॥ www.jainelibrary.org
SR No.600168
Book TitleVisheshavashyak Bhashya Part 07
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy