________________
विशेषा
हवृत्तिः।
गुरु शिष्ययोस्तद्विषयः सामायिकविषयो व्यापारः करणम् । स च गुरु-शिष्ययोस्तद्यापारश्चतुर्विधः, तच्चातुर्विध्यात् तत्स्वरूपं करणमपि चतुर्विधम् । तद्यथा-वाचयामि' इति गुरुपतिज्ञारूप उद्देशः, ततस्तत्मदत्तैव सूत्रस्य परिपाटीरूपा वाचना, तथा, समुद्देशः, अनुज्ञा चेति ॥ ३४१४॥
अत्राक्षेप-परिहारावाहनण भणियमणेगविहं पुव्वं करणमिह किं पुणो गहणं । तं पुव्वगाहियकरणं इदमिह दाणग्गहणकाले ॥३४१५॥
ननु पूर्व नामादिभेदतोऽनेकविध करणमुक्तम्, इह किं पुनरपि भेदकथनगर्भ करणग्रहणम् ? । अत्रोच्यते-तत् प्रागुक्तं पूर्व गृहीतस्य दानग्रहणकालादुत्तीर्णस्य सामायिकस्य सिद्ध करणमुक्तम्, इदं विह गुरु-शिष्ययोर्दान-ग्रहणकाले उद्देशादिविधिना साध्यं करणमुच्यत इति विशेषः ॥ ३४१५॥
विशेषान्तरमाहपुव्वमविसेसियं वा इह गुरु-सीसकिरियाविसेसाओ । करणावसरो वायं णेगंतत्थं तु वच्चासो ॥ ३४१६ ॥
अथवा, पूर्वमविशेषितं करणमुक्तम्, इह तु तदेव गुरु-शिष्योक्तिक्रियाविशेषाद् विशेषितमुच्यते । अथवा, अयमेव गुरु-शिष्योक्ति-प्रत्युक्तिकाले सामायिककरणस्य भणनावसरः । तत्र तर्हि किमित्युक्तम् ? इति चेत् । उच्यते-अनेकान्तार्थ व्यत्यासोऽस्थानभणनम् । न ह्ययं नियमो यदन्यत्र वक्तव्यं तदत्र नोच्यते, विचित्रा च भगवतः सूत्रस्य कृतिरिति ।। ३४१६॥ गतं 'करणं कति. विधम् ?' इति द्वारम् ॥
इदानीं 'कथम् । इति द्वारमभिधित्सुराहलब्भइ कह ति भणिए सुयसामइयं जहा नमोक्कारो । सेसाई तदावरणक्खयओ समओऽहवोभयओ ॥३४१७॥ 'कथं सामायिकं लभ्यते ?' इति भणिते सत्युच्यते-श्रुतसामायिकं तावद् यथा नमस्कारः पूर्वमुक्तस्तथा लभ्यते, नमस्कार
१ ननु भणितमनेकविधं पूर्व करणमिह किं पुनर्ग्रहणम् । तत् पूर्वगृहीतकरणमिदमिह दानग्रहणकाले ॥ ३४१५ ।। २ पूर्वमविशेषितं वेह गुरु-शिष्यक्रियाविशेषात् । करणावसरो वायमनेकान्तार्थ तु व्यत्यासः ।। ३४१६ ॥ ३लभ्यते कथामिति भाणते श्रुतसामायिकं यथा नमस्कारः । शेषामि तदावरणक्षयतः शमतोऽथवोभयतः ॥ ३४१७ ।।
॥१३९६॥
For Personal and Price Use Only