SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ विशेषा ० ॥१२९७ ॥ Jain Educatora in स्यापि श्रुतान्तर्गतत्वात् । नमस्कारलाभश्च पूर्वमित्यमुक्तः - 'मैइ सुयनाणावरणं दंसणमोहं च तदुवधाईणि । तप्फड्डयाई दुविहारं सव्व देसोबधाईणि ॥ १ ॥ सव्वैसु सव्वधासु हसु देसोवघाइयाणं च । भाएहिं मुंचमाणो समए समए अणतेहिं ॥ २ ॥ पढमं लहइ नकारं इक्किक्कं वण्णमेवमण्णं पि । कमसो वियुज्झमाणो लहइ समत्तं नमोकारं ॥ ३ ॥' इह च सम्यग्दृशामेव नमस्कारो भवतीत्येतावन्मात्रेणैव दर्शनमोहनीयस्य क्षयोपशम उक्तः, मुख्यवृत्या तु नमस्कारस्य श्रुतरूपत्वात्, तदावरणक्षयोपशमादेवासौ लभ्यत इत्युक्तं द्रष्टव्यम् । एवं श्रुतसामायिकमपि मति श्रुतक्षयोपशमाल्लभ्यत इति दृश्यम् । शेषाणि सम्यक्त्व देश विरति सर्वविरतिसामायिकानि तदावरणस्य यथासंभवं क्षयतः शमतः - उपशमत इत्यर्थः, अथवोभयतः क्षयोपशमाद् भवन्तीति द्रष्टव्यमिति ।। ३४१७ ।। अत्राक्षेप परिहारावाद - नैणु भणियमुवक्कमया खओवसमओ पुणो उवग्धाए । लब्भइ कहूं ति भणियं इह कह का पुणो पुच्छा ? ॥३४१८ ॥ आह - ननु पूर्वमत्रैवोपक्रमतोपक्रमप्रस्तावे 'भवे खओवसमिए दुबाळसंगं पि होई सुयनाणं' तथा ''बीयकसायाणुदए अपच्चक्खाणनामधिज्जाणं' तथा 'तैइयकसायाणुदए पच्चक्खाणावरणनामधिज्जाणं, देसिक्कदेसविरई' तथा, बारसविहे कसाए खविए उवसामि व जोएहिं लग्भइ चरिचलंभो' इत्यादिवचनात् तदावरणस्य क्षयोपशमात् क्षयादिभ्यश्च सम्यक्त्वा दिसामायिकानि लभ्यन्त इति भणितम् पुनरपि चोपोद्धाते किं कइविहं' इत्यादिगाथायां ' कथं सामायिकं लभ्यते ?' 'मानुष्यादिभ्यः' इति " १६३ १ मति श्रुतज्ञानावरणं दर्शनमोदं च तदुपघातीनि । तत्कानि द्विविधानि सर्व देशोपघातीनि ॥ १ ॥ सर्वेषु सर्वघातिषु तेषु देशेोपघातिकानां च । भागैमुच्यमानः समये समयेऽनन्तैः ॥ २ ॥ प्रथमं लभते नकारमेकैकं वर्णमेवमन्यमपि । क्रमशो विशुध्यमानो लभते समस्तं नमस्कारम् || ३ || २ ननु भणितमुपक्रमता क्षयोपशमतः पुनरुपद्धाते । लभ्यते कथमिति भणितमिह कथं का पुनः पृच्छा ? ।। ३४१८ ॥ ३ भावे क्षायोपशमिके द्वादशाङ्गमपि भवति श्रुतज्ञानम् । ४ द्वितीय कषायाणामुदयेऽप्रत्याख्याननामधेयानाम् । ५ तृतीयकपायाणामुये प्रत्याख्यानावरण नामधेयानां देशैकदेशविरतिम् । ६ द्वादशविधे कषाये क्षपिते औपशमिके वा योगेर्लभ्यते चारित्रलाभः । For Personal and Private Use Only बृहद्वत्तिः । ॥१२९७॥ www.jainelibrary.org
SR No.600168
Book TitleVisheshavashyak Bhashya Part 07
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy