________________
विशेषा०
॥१२५०।।
Jain Educator I
व्याख्या - साध्वादिदानेपि परानुग्रहलक्षण संकल्पमात्रत एवेह दातुः फलनिष्पत्तिः, न पुनः पश्चात् तत्कृताद् दानकृतादुपकागदपकाराद् वेति, इतरथोपयुक्ते साध्वादिना भुक्ते योऽजीर्णादिदोषस्तन दाक्षिणेयस्य दक्षिणा दानं तद्विषयभूतस्य साध्वादेव मरणे सति दातुर्वधापत्तिहिंसादिदोषसमापत्तिः । तेन च हिंसादिदोषेणादानप्रसङ्गोऽयं प्राप्नोति अनिष्टं चैतत् दातुर्विशुद्धपरिणामत्वात् । न हि तेन साध्वादिजिघांसया दानं दत्तम्, किन्तु तद्गुणबहुमानादिपरिणामेन । न चैवं विशुद्धपरिणामस्यापि पापसंबन्धो घटते, अन्यथा मातृस्तन्यपानादजीर्णाद् बालस्य मरणे मातुस्तद्वधकृतपापप्रसङ्गादिति । तदेवं प्राग् यदुक्तम् – 'पूयाऽणुवगारा ओडपरिगद्दाओ' इत्यादि, तत्र 'पूजानुपकारात्' इत्ययं हेतुरपाकृतः ।। ३२७० ।। ३२७१ ॥
अथ 'अपरिग्रहात्' इत्यमुं निराचिकीर्षुराह
परपरिग्गहच्चि धम्मो किंतु परिणामसुद्धीओ । पूया अपरिग्गहम्मिं वि साय धुवा तो तदारंभो ॥३२७२॥
न खलु पूजायाः परेण पूज्येन परिग्रहादेव धर्मः, किन्तु स्वपरिणामशुद्धितः, सा च परिणामशुद्धिः पूजायाः परेणापरिग्रहेऽपि ध्रुवा निश्चिता स्वसंवेदनसिद्धा समस्ति, ततस्तदारम्भो नमस्कारपूजारम्भ इति ॥३२७२॥
किश्च दानस्यापरिग्रहत्वमभ्युपगम्योक्तम्, वस्तुतस्तु तद् नास्त्येवेति दर्शयन्नाह -
इह चोयगमणुमोयगमणिसे हगमेव संपयााणं ति । बहु-मुणि-पडिमाइ जओ न दाणमपरिग्गहं तेण ॥३२७३॥
इह यतो यस्मात् सत्कृत्य सभ्यग् वा प्रदीयते यस्मै तत् संप्रदानम् । तच्च त्रिविधम्; तद्यथा- 'दीयतां मह्यम्, बहुफलं भवतां भविष्यति' इत्यादिवचनमपश्चेन किञ्चित् प्रेरकम्, यथा बटुर्ब्राह्मणः अपरं स्वित्थममेरकमपि दानस्य ग्रहणपरिभोगाभ्यामनुमोदकं भवति, यथा मुनिः साधुः अन्यत्तु पुष्पाद्यनिषेधादनिषेधकम्, यथाऽईत्प्रतिमादि, सर्वत्र संप्रदानार्थस्य विद्यमानत्वात् । तेन तस्माद् न कचिद् दानमपरिग्रहमस्तीति ॥३२७३ ||
अपि च, किमनया दानस्य परिग्रहापरिग्रहचिन्तया, कार्यस्यान्यथैव स्थितत्वात् कथम् ? इत्याह
१ न परपरिप्रत एव धर्मः किन्तु परिणामशुद्धितः । पूजाऽपरिग्रहेऽपि सा च ध्रुवा ततस्तदारम्भः || ३२७२ || २ इद्द चोदकगनुमोदकमनिषेधकमेव संप्रदानमिति । बटु-मुनि-प्रतिमादि यतो न दानमपरिग्रहं तेन ।। ३२७३ ।।
For Personal and Private Use Only
बृहद्वृत्तिः ।
C
॥१२३०॥
www.jainelibrary.org