________________
विशेषा.
बृहद्वृत्तिः
॥१२४९॥
या परोवयाराभावे वि सिवाय जिणवराईणं । परिणामसुद्धिहउं सुभकिरियाओ य बंभं व ॥३२६॥
शिवाय मोक्षार्थ भवति पूजा, परोपकाराभावेऽपि पश्चानामपि जिनवरादीनामिति साध्यम्, पूजकपरिणामशुद्धिहेतुत्वात , तन्नमस्कारक्रियायाश्च ज्ञानादिगुणविषयबहुपानत्वेन निरवद्यत्वेन च शुभत्वात् , ब्रह्मचर्यादिवदिति ॥३२६७।।
अथ सुप्रसिद्धदृष्टान्तोपदर्शनेनापि जिनादिपूजा परोपकाराभावेऽपि शिवायेति समर्थयन्नाह - परहिययगया मेत्ती करेइ भूयाण कमुवयारं सा । अवयारं दूरस्थो कं वा हिंसाइसंकप्पो ? ॥३२६८॥ धम्माधम्मनिमित्तं तहावि तहवेह निरुवगारो वि । पूयासुहसंकप्पो धम्मनिमित्तं जिणाईणं ॥३२६९॥
परहृदयगता साधुहृदयस्थिता सर्वभूतेषु या मैत्री सा तेषां पृथिव्यादिभूतानां कमुपकारं करोति ? न कश्चित् , तथा, कं | वा देवदत्तादिहृदयगतो दूरस्थहरिणादिभूतग्रामविषयो दूरस्थहरिणाद्यपेक्षया दूरस्थो हिंसा स्तेयादिसंकल्पोऽपकारं कुर्यात् ?-न कश्चित् ।
तथापि मैत्री हिंसादिसंकल्पश्च भूतानामुपकारा ऽपकारविरहेऽपि द्वावपि यथासंख्यं धर्मा-ऽधमनिमित्तं भवत एव । तथा चैत्र चोक्तमका | रेण निरुपकारोऽपि जिनादीनामुपकारमकुर्वन्नपि भूतानां साधुगतमैत्रीसंकल्पवन्जिनादीनां पूजाशुभसंकल्पः पूजकस्य धर्मनिमित्तं भवतीति ॥ ३२६८ ॥ ३२६९ ।।
आह-ननु यथा दानं साध्वादीनामुपकारं करोति, नैवं जिनादीनां नमस्कारपूजा, तत् कथमसौ धर्मनिमित्तं भवति ? इत्याशङ्कयाह
दाणे वि पगणुग्गहलक्खणसकप्पमत्तआ चव । फलामह न उ पच्छा तकओवगारा-ऽवगाराओ ॥३२७०॥ इहरोव उत्तभत्ताजिन्नाइ वहम्मि दक्खिणेयस्स । दिन्तस्स वहावत्ती तेणादाणप्पसंगोऽयं ॥३२७१॥
१ पूजा परोपकाराभावेऽपि शिवाय जिनवरादीनाम् । परिणामशुद्धिहे तो: शुभ क्रयायाश्च ब्रह्मत्र ॥ ३२६७ ।। २परहृदयगता मैत्री करोति भूतानां कम्पकारं सा | अपकारं दूरस्थ: कं वा हिंसादिसंकल्पः । ।। ३२६८ ।। धर्माधर्मनिमित्तं तथापि तथावह निरुपकारोऽपि । पूजाशुभसंकल्पो धर्मतिमित्तं जिनादीनाम् ।। ३२६९ ।। ३ दानेऽपि परानुपहलक्षणसंकल्पमात्रतश्चैव । फलमिह न तु पश्चात् तत्कृतोपकारा-ऽपकाराभ्याम् ।। ३२७० ।। इतरथोपयुक्तभक्ताजीर्णादिना वधे दाक्षिणेयस्य । ददतो वधापत्तिस्तेनादानप्रसङ्गोऽयम् ॥ ३२७१ ॥
॥१२४९॥
१५७
Jan Education Inteloo
For Personal and
Use Only
+Olww.jainelibrary.org