SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ विशेषा ॥१२४८॥ सा परः प्राह पुज्जा जिणाइवजा नहि मोक्खत्थं सराग-दोस त्ति । अकयत्थभावओ वि य दवट्ठाए दरिद व्व॥३२६४॥ बृहदत्तिः । जिन-सिद्धान् वर्जयित्वा शेषा आचार्यो-पाध्याय-साधवो नहि नैव मोक्षार्थ पूजा इति प्रतिज्ञा, सराग-द्वेषत्वात्, अत एवाकृतार्थभावाच्च, द्रव्यार्थ दरिद्रा इवेति ॥ ३२६४ ॥ अत्र प्रतिविधानमाह-- ___ कैलुसफलेण न जुज्जइ किं चित्तं तत्थ जं विगयरागो । सते वि जो कसाए न गिण्हइ सो वि तत्तुल्लो॥३२६५॥ किं तत्र चित्रं किमाश्चर्यं यद् विगतरागः कलुषफलेन कषायजनितेन चित्तकालुष्येन न युज्यते, विगतकषायोदयत्वात् तस्य । ननु सोऽपि तत्तुल्यो वीतरागसमान एवं यः सतोऽपि कषायान् न गृह्णाति । ततश्चास्मात् परमगुरुवचनादाचार्यादयोऽपि वीतरागतुल्या एव, सतामपि कषायाणां निग्रहात् । ततः 'सराग-द्वेषत्वात्' इत्यसिद्धो हेतुरिति भावः । इयं च गाथा केषुचिदादर्शेषु न दृश्यते, पूर्वटीकाकारैरपि न व्याख्याता; अस्माभिस्तु बहुवादशेषु दर्शनात् सोपयोगत्वाञ्च लिखितेति ॥ ३२६५ ॥ 'अकृतार्थत्वात्' इत्ययमपि हेतुरनैकान्तिकः, अकृतार्थत्वे सत्यपि कारणान्तरतोऽपि पूजासंभवादिति दर्शयन्नाह ने परोवयारओ च्चिय धम्मो न परोवयारहेउं च । पूयारंभो नणु सपरिणामसुद्धत्थमक्खाओ ॥ ३२६६ ॥ _ 'अकृतार्थभावात्' इति ब्रुवतस्तव किलायमभिप्रायः-'स्वयमकृतार्थाः सन्त आचार्यादयो न परोपकारक्षमाः, अतस्तदसमर्था दरिद्रा इव न ते नमस्करणीयाः' इति । एतच्चायुक्तम् , यतो न परस्मादहदादेरुपकारत एव धर्मो नमस्कर्तुः, नापि परस्याहदादेरुपकारहेतोस्तस्य नमस्कारपूजारम्भः । ननु स्वपरिणामशुद्ध्यर्थमाख्यातोऽसौ । ततः किश्चिदकृतार्थत्वे सत्यपि स्वशुभपरिणामनिबन्धनत्वात् पूज्या एवाचार्यादय इति ॥ ३२६६ ॥ अथ पश्चानामपि पूज्यत्वसमर्थनार्थ प्रमाणमाह खानपान पूज्या जिनादिवर्जा नहि मोक्षार्थ सराग-द्वेषा इति । अकृतार्थभावतोऽपि च द्रव्याथै दरिद्रा इव ॥ ३२६४ ॥ २ कलुषफलेन न युज्यते किं चित्रं तत्र यद् विगतरागः । सतोऽपि यः कषायान् न गृहाति सोऽपि तत्तुल्यः ॥ ३२६५॥ ३ न परोपकारत एवं धर्मो न परोपकारहेतोञ्च । पूजारम्भो ननु स्वपरिणामशुद्धयर्थमाख्यातः ॥ ३२६६ ॥ ॥१२४८॥ For Posol s en
SR No.600168
Book TitleVisheshavashyak Bhashya Part 07
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy