SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥१२४७॥ Jain Education Intera हिंसामि मुसं भासे हरामि परदारमाविसामि ति । चिंतेज्ज कोइ न य चिंतियाण कोवाइस भूई ॥३२५९ ॥ तहवि य धम्मा-धम्मोदयाइ संकप्पओ तहावि । वीयकसाए सवओऽधम्मो धम्मो य संथुणओ॥३२६०॥ व्याख्या- 'हिनस्मि हरिणादीन्, मृषां भाषेऽहम्, तद्भाषणाच्च वञ्चयामि देवदत्तादीन्, धनमपहरामि तेषामेव परदारानाविशामि निषेवेऽहम्' इत्यादि कश्चिच्चिन्तयेत् । न च तेषां चिन्तितानां हिंसादिचिन्ताविषयभूतानां हरिणादीनां तत्कालं कोपादिसंभूतिः कोपादिसंभवोऽस्ति; तथापि हिंसादिचिन्तकस्याधर्मः, दयादिसंकल्पतस्तु तद्वतो धर्मो भवति । इत्यावयोरविगानेन प्रसिद्धमेव, तथेहापि प्रस्तुते वतिकषायानप्यर्हत्-सिद्धादीन् शपमानस्याधर्मः, संस्तुवतस्तु धर्म इति किं नेष्यते १ इति || ३२५९ ।। ३२६० ।। अथोपसंहार पूर्वकं प्रस्तुतमुपदर्शयन्नाह - म्हा धम्मा-धम्मा जुत्ता निययप्पसाय- कोवाओ । धम्मत्थिणा पयत्तो कज्जो तो सप्पसायम्मि ॥ ३२६१ ॥ सो य निययप्पसाओऽवस्सं जिण - सिद्धपूयणाउ ति । जस्स फलमप्पमेयं तेण तयत्थो पयत्तोऽयं ॥ ३२६२॥ सुगमे, नवरं यस्य निजमनः प्रसादस्याप्रमेयमनन्तं फलं येनानन्तफलोऽसौ, तेन कारणेन तदर्थो निजमनः प्रसादार्थ ऐवादादिनमस्कारप्रयन इति ।। ३२६१ ।। ३२६२ ॥ अस्यैवार्थस्य साधनार्थं प्रमाणयन्नाह- नाणामयते सइ पुज्जा कोव - पसायविरहाओ । निययप्पसायहेउं नाणाइतियं व जिण- सिद्धा ॥ ३२६३॥ निजमनःप्रसादहेतोः पूज्या जिन-सिद्धा इति प्रतिज्ञा, ज्ञानादिमयत्वे सति कोप- प्रसादविरहादिति हेतु:, ज्ञानादित्रिवदिति दृष्टान्तः । कोपादिविरहिता लेष्टु-काष्ठादयोऽपि विद्यन्ते, अतस्तद्वयवच्छोदार्थ 'ज्ञानादिमयत्वे सति, इति हेतोर्विशेषणमिति ॥३२६३॥ १ हिनस्मि मृष भाषे हरामि परदाराना विशामीति । चिन्तयेत् कोऽपि न च चिन्तितानां कोपादिसंभूतिः ॥ १२५९ ॥ तथापि च धर्मा-धर्मोदयादि संकल्पतस्तथेहापि । वतिकषायान् शपमानस्याधर्मो धर्मश्च संस्तुवतः ॥ ३२६० ॥ २ तस्माद्धर्माधर्मौ युक्तौ निजकप्रसाद - कोपाभ्याम् । धर्माधिंना प्रयत्नः कार्यस्ततः स्वप्रसादे ॥ ३२६१ ॥ स च निजकप्रसादोऽवश्यं जिन सिद्धपूजनादिति । यस्य फलमप्रमेयं तेन तदर्थः प्रयत्नोऽयम् ॥ ३२६२ ॥ ४ ज्ञानादिमयत्वे सति पूज्याः कोप- प्रसादविरहात् । निजकप्रसाद तो नादित्रिकमिव जिन-सिद्धाः ॥ ३२६३ ॥ For Personal and Private Use Only ३ 'क. ग. एवमर्ह' । बृहद्वृत्तिः । ॥१२४७॥ www.jainelibrary.org
SR No.600168
Book TitleVisheshavashyak Bhashya Part 07
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy