SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ R विशेषा० ॥१२२५॥ व दृष्टम् । ततश्च तदभावे तदुभयमपि खस्याकाशस्येव सिद्धानां नास्तीति ।। ३१७९ ।। अथ 'फुसइ अणते सिद्धे' इत्यादिगाथाभावनामाहऐगक्खेत्तेऽणंता पएसपरिवुड्ढि-हाणिओ तत्तो । होति असंखेज्जगुणासंखपएसो जमवगाहो ॥ ३१८० ॥ एकस्य सिद्धस्य यदवगाहनाक्षेत्रं तत्रैकस्मिन्नपि परिपूर्णेऽवगाढा अन्येऽप्यनन्ताः सिद्धाः पाप्यन्ते, अपरे तु ये तस्य क्षेत्रस्यैकैकं प्रदेशमाक्रम्यावगाढास्तेऽपि प्रत्येकमनन्ताः । एवं द्वि-त्रि-चतु-पञ्चादिप्रदेशवृद्ध्या येऽवगाढास्तेऽपि प्रत्येकमनन्ताः । तथा, तस्य मूलक्षेत्रस्यैकैकं प्रदेशं परित्यज्य येऽवगाढास्तेऽपि प्रत्येकमनन्ताः । एवं द्वि-त्रि-चतु-पश्चादिप्रदेशहान्या येवगाढास्तेऽपि प्रत्येकमनन्ताः । एवं च सति प्रदेशपरिवृद्धि-हानिभ्यां ये समवगाढास्ते 'तत्तो त्ति' तेभ्यः परिपूर्णैकक्षेत्रावगाढेभ्योऽसंख्येयगुणा भवन्ति, यद् यस्मादसंख्येयप्रदेशात्मक एकस्य सिद्धस्यावगाहः, प्रतिपदेशं चानन्ताः समवगाढा इति दर्शितमेव । ततो मूलानन्तकेऽसंख्येयैः प्रदेशैर्गुणिते समस्तानामसंख्येयगुणत्वं सिद्धम् ॥ ३१८० ।। अत्राक्षेप-परिहारावाहऐगक्खेत्तेऽणंता किह माया, मुत्तिविरहियत्ताओ। नेयम्मि व नाणाई दिट्ठीओ वेगरूवम्मि ॥ ३१८१॥ मुत्तिमयामवि य समाणदेसया दीसए पईवाणं । गम्मइ परमाणूण य मुत्तिविमुक्केसु का संका ? ॥ ३१८२॥ | प्रकटार्थे, नवरं 'मुत्तिमयेत्यादि' मूर्तिमतामपि प्रदीपप्रभापुद्गलानामित्यर्थः ।। इति विंशतिगाथार्थः ॥ ३१८१ ॥३१८२ ॥ 'असरीर-' इत्यादि नियुक्तिगाथात्रयं सुममम् , प्रायो गतार्थ च । 'मुत्तो करणाभावे-' इत्यादिकास्तु 'सुबहुयतरं' इत्यादिगाथापर्यन्ता नव गाथाः पूर्वमेकादशगणधरे व्याख्याता इति नेह लिख्यन्ते । 'न वि अस्थि माणुसाणं' इत्यादिकास्तु 'इय सव्वकाल-' इत्यादिगाथापर्यन्ताः सप्त नियुक्तिगाथाः सुगमाः, आवश्यके व्याख्याताश्चेति ॥ daee ॥१२२५॥ BRORRORE १गाथा ३१७७ । २ एकक्षेत्रेऽनन्ताः प्रदेशपरिवृद्धि-हानितस्ततः । भवन्त्यसंख्येयगुणा असंख्यप्रदेशो यदवगाहः॥ ३१८॥ ३ एकक्षेत्रेऽनन्ताः कथं माताः, मूत्तिविरहितत्वात् । ज्ञेय इव ज्ञनाानि दृष्टयो वैकरूपे ॥ ३१८१॥ मूर्तिमतामपि च समानदेशता दृश्यते प्रदीपानाम् । गम्यते परमाणूनां च मूर्तिविमुक्तेषु का शङ्का ? ॥३१८२ ॥ १५४ Jan Educational InternaOR For Personal and Price Use Only
SR No.600168
Book TitleVisheshavashyak Bhashya Part 07
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy