SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥१२२४॥ जेत्थ य एगो सिद्धो तत्थ अणंता भवक्खयविमुक्का । अन्नोन्नसमोगाढा पुट्ठा सव्वे वि लोगते ॥३१७६।। पाठसिद्धा ॥ ३१७६ ॥ स्पर्शना तेषां परस्परं कथम् ? इत्यत्र प्रश्ने नियुक्तिकार एवाहफुसइ अणंते सिद्धे सव्वपएसेहिं नियमसो सिद्धो। ते वि असंखिज्जगुणा देसपएसेहिं जे पुट्ठा ॥ ३१७७ ॥ स्पृशत्यनन्तान् सिद्धान् सर्वप्रदेशैरात्मसंबन्धिभिर्नियमात् सिद्ध इति । तथा तेऽपि सर्वप्रदेशस्पृष्टभ्योऽसंख्येयगुणा वर्तन्ते देशप्रदेशैर्ये स्पृष्टाः, कथम् ? इति चेत् । उच्यते- सर्वप्रदेशैस्तावदनन्ताः स्पृष्टाः एवमेकैकेनापि जीवस्य देशेन प्रदेशेन चानन्ताः स्पृष्टाः, जीवश्चासंख्येयदेशप्रदेशात्मकः, ततश्च मूलानन्तकं सकलजीवदेश-प्रदेशाऽसंख्येयकेन गुणितं यथोक्तमेव भवतीति ॥ ३१७७॥ ___ अथ यदुक्तम्- "संठाणमणित्थंथं जरामरणविप्पमुकाणं' इति, तत्र परः पाह-- ने जरा-मरणविमुक्का जीवत्तणओ मइ मणुस्सो व्व । नहि जीवणविरहाओ न जीवणं कम्मविरहाओ॥३१७८॥ न जरा-मरणविमुक्ताः सिद्धा इति प्रतिज्ञा, जीवत्वादिति हेतुः, मनुष्यवदिति दृष्टान्ता मइ त्ति' इति परस्य मतिर्भवेत् ।। मूरिराह- नहि-नैवेदम्, हेतोरसिद्धत्वात् । तदसिद्धत्वं च प्राणधारणलक्षणस्य जीवनस्य तेषु विरहादभावात् जीवनाभावश्च कर्मविरहादिति ॥ ३१७८॥ इति परोपन्यस्तहेतुं निराकृत्य स्वपक्षसिद्धयर्थ युक्तिमाहवैयसो हाणीह जरा पाणच्चाओ य मरणमाइट । सइ देहम्मि तदुभयं तदभावे तं न खस्सेव ॥ ३१७९ ॥ 'जु वयोहानौ' इति धातुपाठाद् वयसो हानिरिह जरा प्रसिद्धा, प्राणत्यागश्च मरणमादिष्टम् । इदं च द्वितयमपि देहे सत्ये , यन्त्र चैकः सिद्धस्तवानन्ता भवक्षयविमुक्ताः । अन्योन्यसमवगाढाः स्पृष्टाः सर्वेऽपि लोकान्ते ॥ ३१७६ ॥ २ स्पृशत्यनन्तान् सिद्धान् सर्वप्रदेशोर्नियमतः सिद्धः । तेऽप्यसंख्येयगुणा देशप्रदेशैर्ये स्पृष्टाः ॥ ३१७७॥ ३ नि० गा। " न जरा-मरणविमुक्ता जीवत्वतो मतिर्मनुष्य इव । नहि जीवनविरहाद् न जीवनं कर्मविरहात ॥ ३१७८ ॥ 4॥१२२४॥ ५ वयसो हानिरिह जरा प्राणत्यागा मरणमादिष्टम् । सति देहे तदुभयं तदभावे सन बस्येव ॥ ३१७९ ॥
SR No.600168
Book TitleVisheshavashyak Bhashya Part 07
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy