SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥१२२३॥ Jain Education Internat तथाऽनित्थस्थंमनियताकारमिति यदुक्तं भवति अनियताकार मित्युक्तं भवतीत्यर्थः । अत एव सिद्धस्यादेरारभ्य गुणाः सिद्धादिगुणास्तेषु प्रतिपाद्यमानेषु "से' न दीहे न हस्से न बट्टे" इत्यादिवचनेनागमे दीर्घत्वादीनां प्रतिषेधः कृतः । आह- यद्येवम्, सिद्धसंस्थानमभावः प्राप्नोति दीर्घत्वादिगुणैर्व्यपदेष्टुमशक्यत्वात् खरविषाणवृदिति । नैतदेवम् यस्मात् तदनित्थंस्थं पूर्वाकारापेक्षया भण्यते, सहि मूर्तत्वाद् दीर्घादिगुणैर्व्यपदिश्यते, न तु सिद्धजीवः, अमूर्तत्वात् । न चैतावता तत्संस्थानमभावः, मूर्तगुणानां दीर्घत्वादीनामभावेstयमूर्त गुणानां ज्ञानादीनां तत्र सद्भावादिति ।। ३१७२ ।। ३१७३ ।। अत्र प्रेर्य - परिहारौ प्राह नामुत्तरसागारो विन्नाणस्सेव, न कुंभनभसो व्व । दिट्ठो परिणामवओ नेयागारं च विन्नाणं ॥ ३१७४ ॥ ननु यदि सिद्धजीवोऽमूर्तस्तहिं तस्यानित्थंस्थ संस्थानरूपो यः कोऽप्याकारो भवद्भिरिष्यते स न प्रामोति, अमूर्तत्वादेव, विज्ञानस्येवेति । सुरिराह- नैतदेवम्, यतो दृष्टः परिणामवतोऽमूर्तस्याप्याकारः, यथा कुम्भनभसः - घटाकाशस्येत्यर्थः । इह यत् परिणामवत् तस्याकारो दृष्टः, यथा घटपरिच्छिन्नस्याकाशस्य, घटाकारपरिणामवांश्च सिद्धजीवः, ततस्तस्याप्यनन्तरभवशरीरपरिच्छिन्नस्यास्त्युपाधिमात्रेण शरीराकारः । विज्ञानस्यापि दृष्टान्तत्वेनोपन्यस्तस्य निराकारत्वमसिद्धम्, यतो ज्ञेयाकारं विज्ञानमिष्यत एव, अन्यथा नीलज्ञानादपि पीतादिसमस्तवस्तुपरिच्छेदप्रसङ्गात्, नीलस्यापि वाऽपरिच्छेदापत्तेः, निराकारत्वाविशेषादिति ॥ ३१७४ ॥ इतोऽपि ज्ञानं साकारम् । कुतः १ इत्याह जीवाणन्नं च जओ देहागारो य सो तहा तं पि । परिमियवत्थुत्तणओ जुत्तं कुंभो व सागारं ॥ ३१७५॥ यतश्च यस्माद् जीवादनन्यदभिन्नं विज्ञानम्, स च जीवो देहेन सर्वतः परिच्छिन्नत्वाद् देहाकार एष्टव्यः, तथा तेनैव प्रकारेण तदपि विज्ञानं परिमितवस्तुत्वाद् देहपरिच्छिन्नवस्तुत्वात् कुम्भवत् साकारं युक्तम्, न तु निराकारमिति ॥ ३१७५ ।। ननु यत्रैकः सिद्धस्तत्र किमन्येऽपि भवन्ति, उत देशभेदतस्तिष्ठन्ति । इत्यत्र नियुक्तिकारः प्राह- १ स न दीर्घो न ह्रस्वो न वृत्तः । २ नामूर्तस्याकारो विज्ञानस्येव न कुम्भनभस इव दृष्टः परिणामवतो ज्ञेयाकारं च विज्ञानम् ॥ ३१७४ ॥ ३ जीवानन्यच्च यतो देहाकारश्च स तथा तदपि । परिमितवस्तुत्वतो युक्तं कुम्भ इव साकारम् || ३१७५ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥१२२३॥ www.jainelibrary.org
SR No.600168
Book TitleVisheshavashyak Bhashya Part 07
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy