________________
विशेषा०
॥ १३४३ ॥
Jain Educators in A
सनीयम् । अथवा, अत्राणं संसारे निपततामशरणम् अतनं वाऽनादिकालात् सातत्यभवनमवृत्तमतीत सावद्ययोगं 'कुच्छामि' जुगुप्से, भवहेतुत्वात्, सर्वविरतिसामायिकस्यैव भवान्धौ निमज्जतां त्राणत्वादिति ।। ३५७८ ।।
अथ 'व्युत्सृजामि' इति सूत्रस्य चरमावयवं संबन्धयन्नाह -
'विविहं विसेसओ वा भिसं सिरामि त्ति वोसिरामिति । छड्डेमि त्ति जमुत्तं तमेव समईयसावज्जं ॥ ३५७९ ॥
विशब्दों विविधार्थी विशेषार्थो वा, उत्शब्दस्तु भृशार्थः, ततश्च विविधं विशेषतो वा भृशमत्यर्थ 'सृज विसर्गे' सृजामि त्यजामीति यदुक्तं भवति । कम् ? इत्याह- तमेवातीत सावद्ययोगम् । 'व्यवसृजामि' इति वाऽवशब्दोऽधः शब्दार्थे, विशेषेणाधः सृजामि क्षिपामि व्यवसृजामीति ।। ३५७९ ।।
आह— नन्वेवं सावद्ययोगपरित्यागात् 'करोमि भदन्त ! सामायिकम्' इति सावद्ययोगनिवर्तनमुच्यते, तदनन्तरं 'व्युत्सृ जामि' इत्युक्ते 'तत्सावद्ययोगनिवर्तनं त्यजामि ' इति वैपरीत्यमापद्यते । तन्न । कुतः १ इत्याह
साइविरमणाओ जहेह भणियम्मि वोसिरामिति । तप्पविक्खचाओ गम्मइ सामाइए वेवं ॥ ३५८० ॥
यथेह मांसादिविरमणादनन्तरं 'व्युत्सृजामि' इति भणिते तत्प्रतिपक्षत्यागो मांसभक्षणनिवृत्तिरूपो गम्यतेऽवसीयते, तथासंव्यवहारदर्शनात्, प्रस्तुत सामायिकेऽप्येवमेवावगन्तव्यम् । इदमुक्तं भवति यथा 'ससुराइयं पञ्चक्खामि जावज्जीवाए चन्विहं तिविहेणं मणं वायाए कारणं न मुंजेमि, न भुंजावेमि, वोसिरामि' इति मांसविरमणादनन्तरं 'व्युत्सृजामि इत्युक्ते 'मांसादिभक्षणरूपं तद्विपक्षं त्यजामि इति गम्यते, एवमिहापि ' तस्स भंते ! पडिक्कपामि निंदामि गरिहामि अप्पाणं इत्येतत्पर्यन्तेन सूत्रेण यत् सर्वसा वद्ययोगप्रत्याख्यानमुक्तम्, तदनन्तरं 'व्युत्सृजामि' इत्युक्ते 'तद्विपक्षरूपं सावद्ययोगाविरमणं त्यजामि इति गम्यत इति ॥ ३५८० ॥
अथ कः पुनः सर्वसावद्ययोगप्रत्याख्यानरूपस्य सामायिकस्य विपक्षः १ इत्याशङ्कय तदुपदर्शनार्थमाह
१ विविधं विशेषतो वा भृशं सृजामीति विसृजामीति । त्यजामीति यदुक्तं तदेव समततिसावयम् || ३५७९ ।। १२ मांसादिविरमणाद्यथेह भणिते विसृजामीति । तत्प्रतिपक्षत्यागो गम्यते सामायिकेऽप्येवम् ॥ ३५८० ॥ ३ मांस-सुरादिकं प्रत्याख्यामि यावज्जीवं चतुर्विधं त्रिविधेन । मनसा वचसा कायेन न भुखे न भोजयामि विसृजामि ।
For Personal and Private Use Only
बृहद्वत्तिः ।
॥१३४३॥
www.jainelibrary.org