SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ विशेषा. ॥१२०७॥ बृहद्वत्तिः । तदेवं बुभुक्षिता जरगयीय बुशगृहे प्रविशन्ती निविडयुक्तिलगुडादिघातैर्निवार्यमाणापि परस्य दुराग्रहबुद्धिन निवर्तते । ततश्चक्षुषी निमील्य धृष्टतया पुनरप्याह इवसद्द-मतुप्पच्चयलोवा तं केइ बिति छउमत्थो । अन्ने पुण परतित्थियवत्तवमिणं ति जति ॥३११३|| यस्य केवलिनो भगवत्यां युगपदुपयोगो निषिद्धस्तं केचित् 'छद्मस्थोऽसौ' इति त्रुवते । कथं पुनः केवली छद्मस्थो भण्यते ? इत्याह-'केवली इव केवली' इति वाक्ये इवशब्दलोपात् । अथवा 'केवली शास्ताऽस्येति केवलिमान्' इति वाक्ये मतुप्रत्ययस्य लोपाच्छद्मस्थोऽसौ न तु केवली, तस्य च युगपदुपयोगनिषेधो मयापीष्यत एवेति परस्याभिप्रायः । पर एवाह- अन्ये तु केचित परतीर्थिकवक्तव्यताविषयमिदं केवलिनो युगपदुपयोगनिषेधसूत्र भगवत्यां केनापि प्रसङ्गेन लिखितमिति नास्माकं तत् प्रमाणमिति जल्पन्ति. अतो न केवलिनः क्रमोपयोग इति ॥ ३११३ ॥ अथ परस्य विभ्रमापहरणार्थ समस्तभूतग्रामानुग्रहशीलः पुनरपि मूरिराहजे छ उमत्थो-होहिय-परमावहिणो विसेसिउं कमसो। निद्दिसइ केवलिं तो एयरस छउमत्थिया नत्थि ॥३११४॥ यस्माद् भगवत्यामष्टादशशताष्टमोदेशके छद्मस्थमाधोवधिकं परमावधिक चेत्येतान त्रीनपि क्रमशः प्रथम विशेष्य विशेषतो निदिश्य ततः पर्यन्ते केवलिन निर्दिशति । तेन तस्मात् तस्य केवलिनः स्वजल्पितबद्धमिध्यावष्टम्भन युक्तिविकलधाष्टर्घसामर्यादिव-मतु. प्रत्ययलोपात् त्वयोपनीयमाना छमस्थता नास्ति किन्तु निरुपचरितकेवल्येवासौ। यदि पुनरय छद्मस्थोऽभिप्रेतः स्यात् तदा किमनेन व्याजनिर्देशेन ? यत् किमपि च्छद्मस्थस्य भणनीयं तत् प्रथम छमस्थोपन्यासकाल एव सर्वमुक्तं स्यादिति ॥ ३११४ ॥ किञ्च, नै य पासइ अणुमन्नो छउमत्थो मोत्तुमोहिसंपन्नं । तत्थ वि जो परमावहिनाणी तत्तो य किंचूणो ? ॥३११५॥ ते दो वि विसेसेउं अन्नो छउमत्थकेवली को सो। जो पासइ परमाणुगहणमिणं जस्स होजाहि ॥३११६॥ १ इवशब्द-मनुप्रत्ययलोपात् तं केचिद्वन्ति च्छमस्थः । अन्ये पुनः परतीथिकवक्तव्यमिदमिति जल्पन्ति ॥३३॥ २ यच्छमस्था-उधोवधिक-परमावधीन् विशेष्य क्रमशः । निर्दिशति केवालनं तत एतस्य च्छद्यस्थता नास्ति ॥ ३॥१४॥ ३ न च पश्यत्यणुमन्यश्छमस्थो मुक्त्वावधिसंपन्नम् । तत्रापि यः परमावधिज्ञानी ततश्च किञ्चिदूनः ॥ ३११५ ॥ तौ द्वावपि विशेष्याम्यश्छमस्थः केवली कः सः । यः पश्यति परमाणुग्रहणमिदं यस्य भवेत् ॥ ३१६॥ १२०७।
SR No.600168
Book TitleVisheshavashyak Bhashya Part 07
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy