________________
४००४
विशेषा.
nिo
४१३११॥
अथवा, आत्मन आत्मजीवस्यामन्त्रणमिदम्-हे भो जीव ! सामायिक करोम्यहम् । कथम् । अवशेषक्रियाविसर्गतः सर्वा अपि क्रिया विसृज्येत्यर्थः । तच्चात्मामन्त्रणं सामायिकैकक्रियाया नियामक नियमार्थम्, तदुपयोगात् तस्यामेवैकस्यां सामायिककिया. यामुपयोगादिति ॥ ३४७० ।।
एवं च सति किमुक्तं भवति ? इत्याहएवं च सव्वकिरियाऽसंवन्नया तदुवउत्तकरणं च । वक्खायं होइ निसीहियाओ किरिओवओगु व्व ॥३४७१॥
एवं च सति सर्वासामपि प्रत्युपेक्षणादिक्रियाणां परस्परमसंपन्नताऽन्योन्यमनावाधता, तस्यामेव मारब्धकक्रियायामुपयुक्तकरणं चात्मामन्त्रणेन व्याख्यातं विशेषेण कथितं भवति, यथा नैषधिक्या नैषेधिकरणेन बाह्यक्रियानिषेधतो वसत्यभ्यन्तरकियोपयोग एव कथितो भवत्येवमिहापीति ॥ ३४७१ ।।
अथवा, जिन-सिद्धायामन्त्रणार्थोऽयं भदन्तशब्द इति दर्शयतिअहवा जहसंभवओ भदंतसद्दो जिणाइसक्खीणं । आमंतणाभिधाई तस्सक्खिजे थिरव्वयया ॥ ३४७२ ॥ गहियं जिणाइसक्खं मइ त्ति तल्लज्ज-गोरव-भयाओ। सामाइयाइयारे परिहरओ तं थिर होइ ॥ ३४७३ ॥
व्याख्या-अथवा, यथासंभवतो ये केचनातिशयज्ञानिनो जिन-सिद्धादयः संभवन्ति, तेषां जिनादीनां साक्षिणामामन्त्रणाभिधायी भदन्तशब्दः, 'भो भो जिनादयो भदन्ताः । युष्मत्साक्षिकं करोम्यहं सामायिकम् इति । तत्साक्षिकत्वे च सामायिककर्तुः स्थिरव्रतता भवतीति । कथम् ? इत्याह-जिनादिसाक्षिकं गृहीतं मया सामायिकम्, अतः परिपालनीयमेवेदम्, इत्यनया वासनया सामायिकातिचारान् परिहरतस्तस्य तत् सामायिकव्रतं स्थिरं भवति । कुतः ? इत्याह - 'तल्लज्जेत्यादि' तेषां जिनादीनां सत्का या लज्जा, तेषु च यद् गौरवं यो बहुमानः, यच्च तदीयं भयं तस्मादिति ॥ ३४७२ ॥ ३४७३॥
१११००००००००००००००००००ककककठठत
१ एवं च सर्वक्रियासंपन्नता तदुपयुक्तकरणं च । व्याख्यातं भवति नैषेधिक्या क्रियोपयोग इव ॥ ३४७१ ।। २ अथवा यथासंभवतो भदन्तशब्दो जिनादिसाक्षिणाम् । आमन्त्रणामिधायी तत्साक्ष्ये स्थिरवतता ॥ ३४७२ ।। गृहीतं जिनादिसाक्ष्ये मतिरिति तल्लज्जा-गौरव-भयात् । सामायिकातिचारान् परिहरतस्तत् स्थिरं भवति ॥ ३४७३ ।।
॥१३११॥
Jain Educationain
For Personal and Price Use Only
18
w
ww.jainelibrary.org