SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ विशेषा ॥१२३३॥ पुव्वाणुपुग्विन कमो नेव य पच्छाणुपुब्बिएं स भवे । सिद्धाईआ पढमा बीयाए साहुणो आई ॥ ३२१० ॥ इह क्रमस्तावद् द्विविधः- पूर्वानुपूर्वी वा, पश्चानुपूर्वी वेति । अनानुपूर्वी किल क्रम एव न भवति, असमञ्जसत्वात् । तत्रायमहंदादिक्रमः पूर्वानुपूर्वी न भवति, सिद्धानामादावनभिधानात् , एकान्तकृतकृत्यत्वेन, तथा, 'सिद्धार्थ नमोकारं काऊणमभिग्गहं तु | सो गिण्हे' इति वचनादहन्नमस्कार्यत्वेन च सिद्धानां प्रधानत्वात् , प्रधानस्य चाभ्यार्हितत्वेन पूर्वाभिधानादिति भावार्थः । तथा, नैव च पश्चानुपूर्येष क्रमो भवेत् , साधूनां प्रथममनभिधानात् । इहाप्रधानत्वात् सर्वपाश्चात्या हि साधवः। ततश्च तानादौ प्रतिपाद्य यदि पर्यन्ते सिद्धाभिधानं स्यात् तदा भवेत् पश्चानुपूर्वी । तस्मात् प्रथमायाः सिद्धादित्वात् , द्वितीयायास्तु साध्वादित्वाद् नेयं पू. र्वानुपूर्वी, नापि पश्चानुपूर्वी ॥ इति नियुक्तिगाथार्थः ।। ३२१० ॥ एतदेव भाष्यकारः पाह'जेण कयत्था सिद्धा न जिणा, सिद्धाइओ कमो जुत्तो । पच्छक्कमो व जइ संजयाइसिद्धावसाणा तो॥३२११॥ जं च जिणाण वि पुजा सिद्धा जं तेसिं निक्कमणकाले । कयसिद्धनमुक्कारा करिति सामाइयं सव्वे॥३२१२॥ गतार्थे ॥ ३२११ ।। ३२१२ ॥ अत्रोत्तरमाह अरहंतुवएसेणं सिहा नजति तेण अरहाई । न वि कोइ परिसाए पणमित्ता पणमइ रन्नो ॥ ३२१३ ॥ इह तावदयं पूर्वानुपूर्वीक्रम एव । यदप्युक्तं 'सिद्धादिरयं प्रामोति' । तदयुक्तम् , यतोऽईदुपदेशेनैव सिद्धा अपि सायन्ते, प्रत्यक्षादिगोचरातीतत्वेनागमगम्यत्वात् तेषाम् । तेन तस्मादईदादिरेव पूर्वानुपूर्वीक्रम इति गम्यते । अत एव चाईतामभ्यहितत्वमव , पूर्वानुपूर्वी न क्रमो नैव च पश्चानुपूर्व्या स भवेत् । सिद्धादिका प्रथमा द्वितीयायां साधव आदौ ॥ ३१॥ २ सिद्धानां नमस्कारं कृत्वाऽभिग्रहं तु स गृहीयात् । । येन कृतार्थाः सिद्धा न जिनाः, सिद्धादिकः क्रमो युक्तः । पश्चाक्रमो वा यदि संयतादिसिद्धावसाना ततः ॥ ३२॥ यच्च जिनानामपि पूज्याः सिद्धा यत् तेषां निष्कमणकाले । कृतसिद्धनमस्काराः कुर्वन्ति सामायिकं सर्वे ॥ ३२॥२॥ • अहंदुपदेशेन सिद्धा ज्ञायन्ते तेनाईदादिः । नापि कश्चित् परिषदे प्रणम्य प्रणमति राज्ञे ॥ ३५॥ ॥१२३३॥ For Personal and Oy
SR No.600168
Book TitleVisheshavashyak Bhashya Part 07
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy