SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ विशेषा बृहद्वृत्तिः। ११३५५॥ नमः श्रीमदहद्भयः । इह गम्भीरापारजन्म-जरा-मरणसलिलसंचयसंपूर्णे, अनवरतभ्राम्यन्महामोहावर्तभीमे, विविधविस्रोतसिकावेलाव्यतिकरदुरतिक्रमे, निःसंख्यकुविकल्पकल्लोलमालाकुले, प्रसरदज्ञानमहामेघदुर्दिनान्धकारनिकुरम्बभीषणे, अनेकापद्वियुन्निपातसंपादितमहाभये, राग-द्वेषदुर्वातसंततिसंजनितहृदयो कम्पे, अविश्रान्तसंज्वलितक्रोधातिरौद्रवडवामुखे, अमानमानशैलस्खलनदुर्गीकृतगमागमव्यतिकरे, मायावल्लीवितानगुप्यत्सत्त्व संघाते, विभवसलिकातिदुष्पूरलोभमहोदरे, विविधव्याधिसंबन्धमत्स्य-कच्छ पपृष्ठपुच्छच्छटाटोपग्राह-नक्रादिप्रचुरजलचरसंचरणसंजनितविषमसंचारे शारीर-मानसानन्तदुःखप्रदापारसंसारवारांनिधौ मां निमग्नं विकलं निःशरणं दीनमवलोक्य कोऽपि करुणापरीतमानसः सद्गुणगुरुमहापुरुषः सम्यग्दर्शनातिदृढमहाप्रतिष्ठानमष्टादशशीलाङ्गसहस्रविचित्रफलकनिबिडघटनाविराजितं सम्यग्ज्ञाननिर्यामकान्वितम्, सुसाधुसंसर्गकार्थसूत्रनिविडबन्धनबद्धम् , संवरकीळाभग्ननिःशेषास्रवद्वारम्, मूत्रितसामायिक-च्छेदोपस्थानीयभेदभिन्नरम्यभूमिकाद्वयम्, तदुपर्युपकल्पितसाधुसमाचारकरणरणमण्डपम्, समन्ततो गुप्तित्रयमस्खरागुप्तम्, असंख्यशुभाध्यवसायसंनद्धदुर्योधयोधसहस्रदुरवलोकम् , सर्वतो निवेशितसद्गुरूपदेशावल्लिकनिकुरम्बम्, मध्यव्यवस्थापितस्थिरतरातिसरलसद्बोधकूपस्तम्भम्, तद्विन्यस्तप्रकृष्टशुभभावमयमहासितपटम्, तदनसमारूढमौढसदुपयोगपञ्जरदौवारिकम्, तदवबद्धाप्रमादनगरनिकरसमायुक्तमित्यादिसर्वाङ्गसंपूर्णतया प्रवणं चारित्रमयं महायानपात्रं समर्पयामास, भणितवांश्च-मो महाभाग ! समधिरोह त्वमस्मिन् यानपात्रे । समारूढश्चात्र मदीयशिक्षा कुर्वाणस्त्वमक्षेपेणैव दुस्तरमप्यमुं भवजलधिमुत्तीर्य प्राप्स्यसि निःशेषदुःखातिक्रान्तमनन्तसुखमयं शिवरबद्वीपम् । ततश्च तद्वचनेनाश्वासितोऽहमारूढस्तत्र। समर्पितं च मम तेन महापुरुषेण सद्भावना. मञ्जूषायां प्रक्षिप्य शुभमनोनामकं महारत्नम् । अभिहितं च मां प्रति 'रक्षणीयमिदं प्रयत्नतो भद्र ! तिष्ठति ह्यस्मिन् महाप्रभावे शुभमनोरत्रे एतद् यानपात्रं, यथोक्तो निर्यामकः, कूपस्तम्भः, योधाः, पञ्जरदौवारिक सर्व क्रमेणावतिष्ठमानमभीष्टदेशं त्वां प्रापयति, एतद. भावे तु सर्वमेतत् प्रलयमुपयाति । अत एव तब पृष्ठतः सर्वादरेणैतदपहरणार्थ लगिष्यन्ति ते मोहराजादयो दुष्टतस्कराः। तेभ्यश्च त्वयेदमित्थं रक्षणीयम् । सद्भावनामञ्जूषाङ्गानां चाग्रतो नानाभङ्गसंभवेऽन्यान्यमनि च तदङ्गानि तस्यां निवेशनीयानि । इत्यादिशिक्षा प्रयच्छन् मयापि समं दूरदेशं गत्वा ततोऽन्तर्हितः संजातः । श्रुतश्चायं सर्वोऽपि व्यतिकरः प्रमादपरताभिधानां महापल्ली समाश्रितेन दुष्टतस्कराधिपतिना मोहराजेन । ततो रे रे तस्कराधमाः ! हता वयम्, यतः केनाप्यस्मवैरिणा निजयानपात्रमारोप्यास्मदाविषयभूतं शिवरत्नद्वीपं नेतुमारब्धः सोऽमुकसंसारिजीवः, स च न केवलं चलितः, किन्त्वन्यानपि यथादर्शमात्मना सहानेकान् नयन् तिष्ठति, ॥१५॥ Jan Edmont For Personal and Price Use Only Thalww.jainabrary.org
SR No.600168
Book TitleVisheshavashyak Bhashya Part 07
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy