________________
विशेषा
॥१३१३॥
विशेषणाजिनाभिहितं सामायिक करोम्यहम् , न पुनः परमणीतं कुतीर्थिकमरूपितमिति ॥ ३४७६ ॥ तदेवं 'करणे भए य अंते' इति पदत्रयं व्याख्यातम् ॥
अथ 'सामायिकम् ' इति चतुर्थपदं व्याचिख्यासुराहराग-दोसविरहिओ समो त्ति अयणं अयो त्ति गमणं ति । समगमणं ति समाओ स एव सामाइयं नाम ॥३४७७॥ अहवा भवं समाए निव्वत्तं तेण तम्मयं वावि । जं तप्पओयणं वा तेण व सामाइयं नेयं ॥ ३४७८ ॥ अहवा समाई सम्मत्त-नाण-चरणाई तेसु तेहिं वा । अयणं अओ समाओ स एव सामाइयं नाम ॥ ३४७९ ॥ अहवा समस्स आओ गुणाण लाभो त्ति जो समाओ सो । अहवा समाणमाओ नेओ सामाइयं नाम ॥३४८०॥ प्रागपि निरुक्तिद्वारे प्रायश्चर्चितार्थाः, सुगमाश्चेति ॥ ३४७७ ॥ ३४७८ ॥ ३४७९ ॥ ३४८० ॥ अथवा, अन्यथा व्युत्पत्तिरित्याहअहवा सामं मित्ती तत्थ अओ तण सामाओ । अहवा सामस्साओ लाभो सामाइयं नाम ॥ ३४८१ ॥ सम्ममओ वा समओ सामाइयमुभयविद्धिभावाओ । अहवा सम्मस्साओ लाभो सामाइयं होइ ॥ ३४८२ ॥
अथवा, सर्वजीवेषु मैत्री साम भण्यते, तत्र साम्निं अयो गमनं, साम्ना वाऽयो गमनं वर्तनं सामायः, अथवा, सान्न आयो छाभः सामायः स एव सामायिक नामेति । अथवा, सम्यगर्थसंशब्दपूर्वकोऽयधातुः, सम्यगयनं वर्तनं समयः, समय एव स्वार्थि
१ राग-द्वेषविरहितः सम इत्ययनमय इति गमनमिति । समगमनमिति समायः स एव सामायिकं नाम ॥ ३४७७ ।। अथवा भवं समाये निर्वृत्तं तेन तन्मयं वापि । यत् तत्प्रयोजनं वा तेन वा सामायिकं ज्ञेयम् ॥ ३४७८ ।। अथवा समानि सम्यक्त्व-ज्ञान-चरणानि तेषु तैर्वा । अयनमयः समायः स एव सामायिकं नाम ॥ ३४७९ ।। अथवा समस्यायो गुणानां लाभ इति यः समायः सः । अथवा समानामायो शेयः सामायिकं नाम || ३४८० ।। २ अथवा सा मैत्री तत्रायस्तेन मामायः । अथवा साम्न आयो लाभः सामायिकं नाम ।। ३४८१ ।। ३ सम्यगयो वा समयः सामायिकमुभयवृद्धिभावात् । अथवा साम्यस्यायो लाभः सामायिकं भवति ।। ३४८२ ।।
॥१३१३॥