________________
( ७३ )
तथा मिश्रः - सत्यासत्यमनोयोगः, यथा इह धषखदिर पलाशादिमिश्रेषु शोकवृक्षेषु अशोक बनमेवेदमिति यदा विकल्पयति तदा तत्राऽशोकवृक्षाणां सद्भावात् सत्यः, अन्येषामपि धवखदिरपलाशादीनां तत्र सद्भावात् असत्य इति सत्यासत्यमनोयोग इति व्यवहारनयमतापेक्षया चैवमुच्यते, परमार्थतः पुनरयम- सत्य एव यथाविकल्पार्थायोगात् ३ | - कर्म ० ० भा ४ । गा २४ । टीका तदुभय योगात्सत्यमोषमनोयोगः ।
- षट् ० • खं १, १ । सू ४६ । टीका । १ । पु० २८० जिसमें सत्य और असत्य मिश्रित हो, यथा-धव, खदिर, पलाश आदि वृक्षों से मिश्रित वन को अशोक वृक्षों की बहुलता के कारण 'अशोक वन ही है' ऐसा विकल्प मानना । यद्यपि यहाँ पर कतिपय अशोक वृक्षों के सद्भाव के कारण सत्यता है, किन्तु अन्य धव, खदिर आदि के सद्भाव के कारण असत्यता भी है । व्यवहार नय की अपेक्षा से ऐसा कहा जाता है, परमार्थतः यह असत्य ही है, क्योंकि विकल्पार्थ का योग नहीं रहता है । इस प्रकार के मन के व्यापार को सत्यमृषामनोयोग कहते हैं ।
.०२.०४ असत्यामृषामनोयोग की परिभाषा
xxx 'असच्या मोसमणपओगे' इति यन्न सत्यं नापि मृषा तदसत्यामृषा, इह विप्रतिपत्तौ सत्यां वस्तुप्रतिष्ठासया सर्वज्ञमतानुसारेण विकल्प्यते यथा अस्ति जीवः सदसद्र ूप इति तत्किल सत्यं परिभाषितमाराधकत्वात्, यत्पुनर्विप्रतिपत्तौ सत्यां यद्वस्तुप्रतिष्ठाशयापि सर्वज्ञमतोत्तीर्ण' विकल्प्यते यथा नास्ति जीवः एकान्तनित्यो वेत्यादि तदसत्यं विराधकत्वात्, यत्पुनर्वस्तुप्रतिष्ठाशामन्तरेण स्वरूपमात्रपर्यालोचनपरं यथा - देवदत्तात् ३ घट आनेतव्यो गौर्याचनीया इत्यादिचिन्तनपरं तत् असत्यामृषा, इदं हि स्वरूपमात्रपर्यालोचनपरत्वात् न यथोत्तलक्षणं सत्यं नापि मृषा, एतदपि व्यवहारनयमतापेक्षया द्रष्टव्यं अन्यया विप्रतारणबुद्धिपूर्व कमसत्येऽन्तर्भवति अन्यत्तु सत्ये, तच्च तन्मनश्च तस्य प्रयोगोऽसत्याऽमृषामनः प्रयोगः । XXX ।
- पण्ण० प १६ । सू १०६८ | टीका न विद्यते सत्यं यत्र सोऽसत्यः, न विद्यते मृषा यत्र सोऽमृषः, असत्यश्वासावमृषश्व 'क' नञादिभिन्नैः (सि० ३|१|१०५) इति कर्मधारयः, असत्यामृष - श्वासौ मनोयोगश्च असत्यामृषमनोयोगः ४ । इह विप्रतिपत्तौ सत्यां वस्तुप्रतिष्ठासया XXX सर्वशमतोत्तीर्ण किञ्चिद् विकल्प्यते, यथा नास्ति जीवएका
नित्यो वेत्यादि, तद् असत्यमिति परिभाषितं विराधकत्वात् । यत् पुनर्वस्तु प्रतिष्ठासामन्तरेण स्वरूपमात्रप्रतिपादनपरं व्यवहारपतितं किञ्चद् विकल्प्यते,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org