________________
( २७७ ) चिद् भेदविवक्षायां तदविरोधात् । तेषां समुद्घातगतानां केवलिनां कार्मणकाययोगो भवेत् । शब्दः समुच्चयप्रतिपादकः ।
____ अथ स्यात्केवलिनां समुद्घातः सहेतुको निर्हेतुको वा ? न द्वितीयविकल्पः, सर्वेषां समुद्घातगमनपूर्वकं मुक्तिप्रसङ्गात्। अस्तु चेन्न, लोकव्यापिनां केवलिनां विंशतिसंख्यावर्षपृथक्त्वानन्तरनियमानुपपत्तेः। न प्रथमपक्षोऽपि तद्ध त्वनुपलम्भात् । न तावदघातिकर्मणां स्थित्यायुष्यस्थितेरसमानता हेतुः क्षीणकषायचरमावस्थायां सर्वकर्मणां समानत्वाभावात् सर्वेषामपि तत्प्रसङ्गादिति।
अत्र प्रतिषिधीयते । यतिवृषभोपदेशात्सर्वघातिकर्मणां क्षीणकषायचरमसमये स्थितेः साम्याभावात्सर्वेऽपि कृतसमुद्घाताः सन्तो निवृतिमुपढौकन्ते । येषामाचार्याणां लोकव्यापिकेवलिषु विंशतिसंख्यानियमस्तेषां मतेन केचित्समुद्घातयन्ति, केचिन्न समुद्घातयन्ति ? के न समुद्घातयन्ति येषां संसृति व्यक्तिः कर्मस्थित्या समाना, ते न समुद्घातयन्ति, शेषाः समुद्घातयन्ति। अनिवृत्त्यादिपरिणामेषु समानेषु सत्सु किमिति स्थित्योर्वेषम्यम् ? न, व्यक्तिस्थितिघातहेतुप्यनिवृत्त- परिणामेषु समानेषु सत्सु संसृतेस्तत्समानत्वविरोधात् । संसारपिच्छित्तेः किं कारणम् ? द्वादशाङ्गावगमः तत्तीवभक्तिः केवलिसमुद्घातोऽनिवृत्तपरिणामाश्च । न चैते सर्वेषु सम्भवन्ति दशनवपूर्वधारिणामपि क्षपकश्रेण्यारोहणदर्शनात् । न तत्र संसारसमानकर्मस्थितयः समुद्घातेन विना स्थितिकाण्डकानि अन्तर्महर्तेन निपतनस्वभावानि पल्योपमस्यासंख्येयभागायतानि संख्येयापलिकायतानि च निपातयन्तः आयुः समानि कर्माणि कुर्वन्ति । अपरे समुद्घातेन समानयन्ति । न चैष संसारघातः केवलिनि प्राक् सम्भवति स्थितिकाण्डघातवत्समानपरिणामत्वात् । परिणामातिशयाभावे पश्चादपि मा भूद्घात इति चेन्न, पीतरागपरिणामेषु समानेषु सत्स्वन्येभ्योऽन्तर्मुहूर्तायुरपेक्ष्य आत्मनः समुत्पन्नेभ्यस्तद्घातोपपत्तेः अन्यैराचार्यैव्याख्यातमिममर्थ भणन्तः कथं न सूत्रप्रत्यनीकाः १ न, वर्षपृथक्त्वानन्तरसूत्रवशवर्तिनां तद्विरोधात ।
कामणकाययोग विग्रहगति को प्राप्त जीवों में तथा समुद्घातगत केवलियों में होता है।
विग्रह देह को कहा जाता है, उसके लिए जो गति होती है यह विग्रह गति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org