________________
कर्मणो विकारः कार्मणम्, “विकारे" ( सि०६२।३०) अण प्रत्ययः, यद्वा कर्मैव कार्मणम्, “प्रशादिभ्योऽण" (सि० ७।२।१६५) [ इत्यण ] प्रत्ययः, कमपरमाणव एवात्मप्रदेशैः सह क्षीरनीरवद् अन्योन्यानुगताः सन्तः कार्मणं शरीरम् । उक्तं च
कम्मविगारो कम्मणमट्टविहविचित्तकम्मनिष्फलं । सम्वेसि सरीराणं, कारणभूयं मुणेयव्वं ॥
( अनु० हा० टी० पत्र ८७) अत्र 'सन्वेसिं' इति सर्वेषामौदारिकादीनां शरीराणां कारणभूतं-बीजभूतं कार्मणशरीरम्, न खल्वामूलमुच्छिन्ने भवप्रपन्चप्ररोह-बीजभूते कार्मणे वपुषि शेषशरीरप्रादुर्भावसम्भवः ।
इदं व कार्मणशरीरं जन्तोर्गत्यन्तरसंक्रान्तौ साधकतमं करणम् । तथाहि कार्मणेनैव वपुषा परिकरितो जन्तुर्मरणदेशमपहायोत्पत्तिदेशमुपसर्पति ।
ननु यदि कामणवपुःपरिकरितो गत्यन्तरं संक्रामति तर्हि गच्छन् कस्मात नोपलक्ष्यते ? [ उच्यते ] कर्मपुद्गलानामति सूक्ष्मतया चक्षुरादीन्द्रियागोचरत्वात् । आह च प्रज्ञाकरगुप्तोऽपि
अन्तरा भवदेहोऽपि, सूक्ष्मत्वान्नोपलक्ष्यते ।
निष्क्रामन् प्रविशत् वाऽपि नाभावोऽनीक्षणादपि ॥ कार्मणमेव कायस्तेन योगः कार्मणकाययोगः ७.
-कम भा ४ । गा २४ । टीका कार्मणस्तु विग्रहे केवलिसमुद्घाते वेति ।
-ठाण• स्था ३ । उ १ । सू १३ । टीका । पृ० कर्मैव कार्मणम् शरीरम्, अष्टकमस्कन्ध इति यावत् । अथवा कर्मणि भवं कार्मणं शरीरं नामकर्मावयवस्य कर्मणो ग्रहणम् । तेन योगः कार्मण काययोगः। केवलेन कर्मणा जनितवीर्येण सहयोग इति यावत्।
-षट् खं १, १ । सू ५६ । टीका । पृ १ । पृ० २६५ तेजस-कामणशरीरकायप्रयोग जीव की विग्रहगति में या सयोगिकेवली की समुदघातावस्था के तृतीय, चतुर्थ और पंचम समय में होता है । यहाँ पर तेजस शब्द कार्मण के साथ अव्यभिचारी रूप से प्रयुक्त होता है, अतः एक साथ तेजस और कार्मण का ग्रहण हुआ है।
कर्म का विकार कामण या कर्म ही कामण । कर्म परमाणु ही आत्मप्रदेशों के साथ क्षीर-नीर की तरह परस्पर सम्मिलित हो जानेपर कार्मण शरीर बनता है। कहा गया है
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org