________________
तृतीये आख्याताध्याये चतुर्थः सम्प्रसारणपाद:
३७
इतरेतराश्रयदोषाश्रयत्वात् ‘सुग्ल:, सुम्ल:' इति न सिध्यतीति। विषयसप्तम्याश्च लिङ्गं "ह्मवामश्च" (४।३।२) इति कप्रत्ययबाधनार्थम् अण्विधानमेव। अन्यथा ह्वेप्रभृतीनामाकारान्तत्वाभावादेव “आतोऽनुपसर्गात् कः” (४।३।४) इति कप्रत्ययो नास्ति। ततः "कर्मण्यण्" (४।३।१) इत्यनेनैव सिध्यतीति भावः। अथान्तग्रहणं किमर्थं यावता धातुरधिकृतः सन्ध्यक्षरेण विशिष्यते, विशेषणेन च तदन्तविधिरिति सिद्धम् इत्याह – अन्तग्रहणमित्यादि। ननु चेता, स्तोता' इति लाक्षणिकत्वादेवात्र न भविष्यति किमनेनेति? नैवम्, इह 'धेट्' धातुरपि लाक्षणिको भवितुमर्हति। टकारस्य “योऽनुबन्धोऽप्रयोगी" (३।८।३१) इति लक्षणविषयत्वादिति मन्यते, अनित्या हि परिभाषा भवतीति। तथा च “स्मिजिक्रीजामिनि" (३।४।२४) इत्यादावाकारस्य लाक्षणिकस्यापि ग्रहणे विस्मापयते' इति “अर्तिही.” (३।६।२२) इत्यादिना पकारागमः सिद्ध: ।। ५५९।
[बि० टी०]
सन्ध्य० । संहितायामपि अधिकरणे इत्येव मन्तव्यम्, "बावामश्च' (४।३।२) इति निर्देशात्। नन हज्' धातोरलि 'आह्वाय' इत्यादि प्रयोगः कथं संगच्छते, तत्राकार: स्याच्चेत् ? न, एतेषां ‘ग्लै' प्रभृतीनामाकारान्तत्वं कृत्वा दिवादिपाठे सिध्यति, यदेतद् वचनम्, तदाकारस्यानित्यत्वं बोधयतीति सम्प्रदायः।। ५५९।
[समीक्षा]
'धाता, ग्लाता, म्लाता, दाता' इत्यादि प्रयोगों के सिद्धयर्थ 'धेट, ग्लै, म्ले, दो' धातुघटित 'ए-ऐ-ओ' के स्थान में 'आ' आदेश करने की आवश्यकता होती है। इसका विधान दोनों व्याकरणों में किया गया है। पाणिनि का सूत्र है – “आदेच उपदेशेऽशिति' (अ०६१४५)। कातन्त्रीय प्रकृत सूत्र में 'अन्त' शब्द का पाठ किए जाने से मूलत: धातुओं में विद्यमान सन्ध्यक्षर का ग्रहण किया जाता है। इसके फलस्वरूप 'चेता, स्तोता' में सूत्र की प्रवृत्ति नहीं होती, क्योंकि मूलत: यहाँ धातुओं में क्रमश: इकार तथा उकार (चि, स्तु) विद्यमान है, गुणादेश करने पर 'एकार-ओकार' वर्ण निष्पन्न होते हैं।
[विशेष वचन] १. अन्तग्रहणं धातुसंज्ञाकाले सन्ध्यक्षरार्थम् (दु० वृ०)। २. अन्तग्रहणमुपदेशसन्ध्यक्षरान्तत्वप्रतिपत्त्यर्थम् (दु० टी०)।
३. अन्तशब्दोऽत्रावयववचन:, अवयवश्चारम्भकः, स च धातुसंज्ञायामेवेति (दु० टी०)।
४. लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणमिति चेत्, तदान्तग्रहणं सुखप्रतिपत्त्यर्थम् (दु० टी०)।
५. अननीति सिद्धेऽविकरणग्रहणं विभक्त्यन्निवृत्त्यर्थम् (दु० टी०)। ६. अनित्या हि परिभाषा भवति (वि० प०)।