________________
कातन्त्रव्याकरणम्
४. अजिजिषति । अन्ज् + सन् + ति । 'अन्ज् व्यक्तिम्रक्षणगतिषु' (६।१७) धातु से सन् प्रत्यय, इडागम, द्विर्वचनादि, सकार को षकार, नकार को अनुस्वार “वर्गे वर्गान्तः” (२।४।४५) से अनुस्वार को ञकार, धातुसंज्ञा, 'ति' प्रत्यय' अन्- विकरण तथा अकारलोप।
३९४
५. अशिशिषते। अश्+सन् + ते। 'अशू व्याप्तौ ' ( ४।२२) धातु से सन् प्रत्यय, इडागम, द्विर्वचनादि तथा विभक्तिकार्य ।
६. चिकरिषति। कृ + सन् + ति । करितुमिच्छति । 'कृ विक्षेपे' (५।२१) धातु से सन् प्रत्यय, इडागम, द्विर्वचनादि तथा विभक्तिकार्य।
७. जिगरिषति । गृ + सन् + ति। 'गृ निगरणे' (५।२२) से सन् प्रत्यय, इडागम, द्विर्वचनादि तथा विभक्तिकार्य ।
८. दिदरिषते । दृ + इट् + सन् + ते। 'दृङ् आदरे' (५।११२) धातु से सन् प्रत्यय, इडागम, द्विर्वचनादि तथा विभक्तिकार्य ।
९. दिघरिषते । धृ + इट् + सन् + ते। 'धृङ् अवस्थाने' (५।११३) धातु से सन् प्रत्यय, इडागम, द्विर्वचनादि तथा विभक्तिकार्य।
१०. पिपृच्छिषति । प्रच्छ् + इट् + सन् + ति। प्रच्छ् ज्ञीप्सायाम्' (५।४९) धातु से सन् प्रत्यय, इडागम, द्विर्वचनादि तथा विभक्ति कार्य ।। ७९३ ।
७९४. इटो दीर्घो ग्रहेरपरोक्षायाम् [३।७।१२]
[सूत्रार्थ]
'ग्रह' धातु से परवर्ती इट् को दीर्घ होता है, यदि परोक्षाविभक्ति पर में न हो तो।।७९४ ।
[दु० वृ०]
ग्रहेः परस्येटो दीर्घो भवति, न तु परोक्षायाम् । ग्रहीता, ग्रहीष्यति । अग्रहीत् । इट्त्वात् सिचो लोपः स्यात् । अस्य च दीर्घो न स्यात् । कथं ग्राहिता, ग्राहिष्यते ? इज्वद् इटोऽश्रुतत्वात् । अपरोक्षायामिति किम् ? जगृहिव, जगृहिम ।
ऋद्वृङ्वृञोऽपि वा दीर्घो न परोक्षाशिषोरिटः । न परस्मै सिचि प्रोक्त इति योगविभञ्जनात् ।।
तृ-तरिता, तरीता । वृङ्, वृञ् वा वरिता, वरीता। वर्जने तु विशशरिव, विशशरिम । ववरिथ, तरिषीष्ट, वरिवीष्ट, अतारिष्टाम्, अवारिष्टाम् ||७९४|
[दु० टी०]
इटः। नन्वागमान्तरमेव दीर्घ ईड् आस्ताम्, किं दीर्घग्रहणेन । अतद्भावादिटः कार्यमीटो न स्यादित्याह- इट्त्वादित्यादि । "इटश्चेटि" ( ३।६।५३ ) इति लक्षणं प्रवर्तते इत्यर्थः । सेट्त्वादस्य च दीर्घो न भवतीत्यर्थः । तथा अग्रहीध्वम्, अग्रहीढ्वम् । विभाषयेटो धस्य ढत्वम् । तर्हि इट: ईरित्यास्ताम्, स्थानिवदभावादिटः कार्यं भवत्येव ? सत्यम् । दीर्घग्रहणं