________________
कातन्त्रव्याकरणम्
५. कूर्दते । कुर्द + अन् + ते । 'कुर्द क्रीडायामेव ' (१।३०९) धातु से वर्तमानासंज्ञक 'ते' प्रत्यय, अन् विकरण तथा प्रकृत सूत्र से रेफ की उपधा - उकार को दीर्घ आदेश । ६. खूर्दते । खुर्द + अन् + ते । 'खुर्द क्रीडायामेव ' (१।३०९) धातु से वर्तमानासंज्ञक 'ते' प्रत्यय, अन् विकरण तथा उकार को दीर्घ आदेश ||८३४ |
८३५. सस्य ह्यस्तन्यां दौ तः [ ३।८।१५ ]
४५०
[सूत्रार्थ]
ह्यस्तनीविभक्तिसंज्ञक ‘दि' प्रत्यय के परे रहते धातुघटित सकार के स्थान में तकारादेश होता है ।।८३५| [दु० वृ०]
सस्य ह्यस्तन्यां दौ परे तो भवति । अचकात्, अन्वशात् । ह्यस्तन्यामिति किम् ? अभैत्सीत् । ईटस्तद्ग्रहणेन ग्रहणात् । ह्यस्तन्यां सौ वा वक्तव्यम् अचकात्त्वम् ||८३५। [दु० टी०]
सस्य०। अभैत्सीदिति। ‘आगमा यद्गुणीभूतास्ते तद्ग्रहणेन गृह्यन्ते' (का० परि०१४) इत्यर्थः। तेन सिचो न भवतीति अधिकारमाश्रित्य सकारेण धातुर्विशिष्यते, तदा ह्यस्तनीग्रहणं स्पष्टार्थम् । ह्यस्तन्यां सौ वा वक्तव्यम् इति मतान्तरचोदितं न वक्तव्यमित्यर्थः ।।८३५।
[वि० प० ]
सस्य०। 'चकासृ दीप्ती, शासु अनुशिष्टौ ' (२।३८, ३९)। अदादित्वादनो लुक् । “व्यञ्जनाद् दिस्योः” (३।६।४७) इति दिलोपः । अभैत्सीदिति । “व्यञ्जनान्तानामनिटाम्” (३।६।७) इति वृद्धि: । यदीह ह्यस्तनीग्रहणं न स्यात्, अद्यतन्यामपि दौ सिचः सकारस्य तकारः स्यात् । न च वक्तव्यम् - इटा व्यवहितो दिरिति 'आगमा यद्गुणीभूतास्ते तद्ग्रहणेन गृह्यन्ते' (का० परि० १४ ) इति । यदि पुनः सकारेणाधिकृतो धातुर्विशिष्यते, विशेषणेन च तदन्तविधिरिति । अतः सान्तस्य धातोर्विधिरुच्यते, न तदा सिचः प्रसङ्ग इति स्पष्टार्थमेव ह्यस्तनीग्रहणं भवति । वक्तव्यमिति व्याख्येयम्, मतान्तरमेतत् । अस्य तु न सम्मतमित्यर्थः ||८३५। [समीक्षा]
'अचकात्, अन्वशात्' प्रयोगों के सिद्ध्यर्थ उभयत्र सकार को तकारादेश किया गया है । पाणिनि का सूत्र है - "तिप्यनस्ते: " ( अ० ८।२ । ७३) । पाणिनीय तिप् प्रत्यय (लङ् लकार) के लिए कातन्त्र मैं ह्यस्तनीविभक्तिसंज्ञक 'दि' प्रत्यय पढ़ा गया है । पाणिनीय सूत्र में लङ् का पाठ नहीं किया गया है और न ही पूर्व सूत्र से उसकी अनुवृत्ति ही आती है। इसके विपरीत कातन्त्रीय सूत्र में साक्षात् 'ह्यस्तनी' शब्द का पाठ है, जो स्पष्टार्थावबोधक है ।
[विशेष वचन ]
१. ह्यस्तन्यां सौ वा वक्तव्यम् - अचकात्त्वम् (दु० वृ०) ।